वाचस्पत्यम्
मीमांसा || स्त्री मान—विचारे स्वार्थे सन् अ । १ विचारपूर्वक- तत्त्वनिर्णये २ तत्प्रतिपादकग्रन्थभेदे च स च ग्रन्थः कर्म- ब्रह्मविषयभेदेन द्विविधस्तत्र कर्मकाण्डबिषयसंशयनिवारको ग्रन्थो जैमिनिप्रणीतः स च पूर्बमीमांसात्वेन प्रसिद्धः ब्रह्मविषयसंशयनिवारकश्चरमः स वेदान्तत्वेन प्रसिद्ध ।
शब्दकल्पद्रुमः
मीमांसा || स्त्री (मानविचारे + “मान् बधदान् शानभ्यो दीर्घश्चाभ्यासस्य ।” ३ । १ । ६ । इति सन् । अः टाप् । अभ्यासस्येकारस्य दीर्घश्च ।)
षड्- दर्शनान्तर्गतदर्शनशास्त्रविशेषः । तत्पर्य्यायः । विचारणा २ । इति हेमचन्द्रः । २ । १६५ ॥ अस्या अध्याया विंशतिः । तत्र पर्ब्बमीमांसा द्वादशा- ध्यायात्मिका जैमिनिप्रणीता यज्ञादिकर्म्मकाण्ड- निरूपिका । अस्या अन्तर्गतानि लोकव्यव- हारनियमार्थं मनुयाज्ञवल्क्यादिभिः बहूनि धर्म्मशास्त्राणि कृतानि । तत्रोत्तरमीमांसा चतुरध्यायात्मिका वेदव्यासप्रणीता ब्रह्मनिरू- पिका । अस्या नाम वेदान्तः । अपराध्याय- चतुष्टयं सङ्कर्षणप्रणीतं उपासनाकाण्डं षड्- दर्शनबहिर्भूतम् ॥ * ॥
प्रमाणादयः प्रसङ्गान्ता द्वादश पदार्थाः क्रमात् द्बादशानामध्यायानां विषयाः । प्रथमेऽध्याये विध्यर्थवादादिरूपं धर्म्मे प्रमाणं निरूपितम् । १ । द्बितीये याग- दानादिकर्म्मभेदः । २ । तृतीये प्रयाजादीनां दर्शपूर्णमासार्थकत्वेन तच्छेषत्वम् । ३ । चतुर्थे गोदोहनस्य पुरुषार्थत्वप्रयुक्त्या अनुष्ठानं न तु क्रत्वर्थत्वप्रयुक्त्येत्येवमादयः । ४ । पञ्चमे क्रम- नियतिविधेयत्वादयः । ५ । षष्ठे कर्त्तुरधिकारो नान्धादेरित्यादयः । ६ । सप्तमे समानमितर- च्छ्येनेन इत्यादि प्रत्यक्षवचनेनाग्निहोत्रादि- नाम्नानुमितवचनेन च सामान्यतोऽतिदेशः । ७ । अष्टमे सौर्य्यं चरुं निर्ब्बपेदित्यत्र निर्व्वापस्तद्धि- तेन देवतानिर्द्देशः एकदैवतत्त्वमौषधद्रव्यकत्व- मित्यादिना लिङ्गेनाग्नेयपुरोडाशेतिकर्त्तव्यता- नान्यस्येत्येवमादिविशेषातिदेशः । ८ । नवमे प्रकृतावग्नये युष्टं निर्व्वपामीति पठिते मन्त्रे विकृतौ सौर्य्यचरावग्निपदपरित्यागेन सूर्य्यपद- प्रक्षेपेण सूर्य्याय युष्टं निर्व्वपामीत्येवमादिरूहः । ९ । दशमे कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासम्भवेन लोप इत्येवमादिर्व्वाधः । १० । एकादशे बहूनामाग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इत्यादि तन्त्रम् । ११ । द्बादशे प्रधानस्य पशोरुपकाराय अनुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युप- कार इत्यादिप्रसङ्गः । १२ ॥ (एतदध्यायप्रति- पाद्यार्थानां विवरणं यथा, — ‘प्रथमाध्यायस्य प्रथमे पादे विधिरूपं मान- मीरितम् । द्वितीयेऽर्थवादरूपम् अर्थवादो मन्त्रस्याप्युपलक्षकः । तृतीये स्मृतिरूपम् । स्मृतिराचारमप्युपलक्षयति । चतुर्थे उद्भिच्चित्रा- दिनामरूपम् । द्बितीयाध्यायस्य प्रथमे पादे आख्यातमेवापूर्ब्बबोधकम् । अपूर्ब्बसद्भाव इत्यादिकः कर्म्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः । द्वितीये धातुभेदपुनरुक्त्यादिभिः कर्म्मभेदः । तृतीये रथन्तरादीनां कर्म्मभेद- प्रामाण्यापवादः । चतुर्थे नित्यकाम्ययोः प्रयो- गयोर्भेदः । तृतीयाध्यायस्य प्रथमे पादे शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता । द्वितीये लिङ्गम् । तृतीये वाक्यप्रकरणादि । चतुर्थे निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णय- हेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः । पञ्चमे प्रतिपत्तिकर्म्माणि । षष्ठेऽनारभ्याधीतानि । सप्तमे बहुप्रधानोपकारकप्रयाजादीनि । अष्टमे याजमानानि । चतुर्थाध्यायस्य प्रथमे पादे प्रधानभूतामिक्षा- दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम् । द्बितीये त्वप्रधानं वत्सापकरणं शाखाच्छेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम् । तृतीये जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादि- फलभावाभावचिन्ता । चतुर्थे राजसूयगत- जघन्याङ्गाक्षद्यूतादिचिन्ता । पञ्चमाध्यायस्य प्रथमे पादे श्रुत्यर्थपाठादिभिः क्रमो निरूषितः । द्वितीये वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्म्मसमापनमित्यादिक्रम- विशेषः । तृतीये पञ्चप्रयाजादीनामावर्त्तनेनै- कादश्यमित्यादिवृद्धिः । अदम्यग्रहचित्रिण्यो- रनावृत्तिरित्यादि वृद्ध्यभावः । चतुर्थे क्रमनि- यामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्ब्बलभावः । षष्ठाध्यायस्य प्रथमे पादे कर्म्माधिकारः । कर्त्तुरस्त्यन्धादेर्नास्ति स्त्रिया अस्ति । योऽस्ति स च पत्या सहेत्येवमादिनाधिकारी निरूपितः । द्वितीये सत्राधिकारिणां प्रत्येकं कृत्स्नं फलम् । दर्शपौर्णमासयोः कर्त्रैक्यनियमः काम्यकर्म्म- समापनीयमित्येवमादयोऽधिकारिधर्म्मा उक्ताः तृतीये द्रव्यस्य प्रतिनिधिरस्ति । देवादीना- मग्न्यादीनामधिकारिणाञ्च स नास्तीत्यादि- निरूपणम् । चतुर्थे पदार्थलोपनं विचारितम् । अवत्तनाशे सत्याज्येन यजेत् । इडाद्यर्थनाशे सति शेषान्नग्राह्यमित्यादिकम् । पञ्चमे कालाप- राधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम् । ज्योतिष्टोमस्यैकादयोदीक्ष्याः । द्बादशाहस्य द्बादशदीक्ष्या इत्यादि निरूपितम् । षष्ठे सत्राधिकारिणस्तुल्यकल्पा एव सत्रं विप्रस्यै- वेत्येवमादिकं चिन्तितम् । सप्तमे पित्रादिकं न देयम् । महाभूमिर्न देयेत्येवमादिदेय- विचारः । अष्टमे लौकिकाग्नावुपनयन- होमः । स्थपतीष्टिस्तथैवेत्येवमाद्यग्निविचारः कृतः । सप्तमाध्यायस्य प्रथमे पादे समानमितरच्छ्येने- नेत्यादिप्रत्यक्षवचनातिदेशः । द्बितीये पूर्ब्बो- क्तातिदेशस्य शेषो विचारितः । तृतीयेऽग्नि- होत्रनाम्नातिदेशः । चतुर्थे निर्व्वापौषधद्रव्यादि- लिङ्गातिदेशः । अष्टमाध्यायस्य प्रथमे पादे स्पष्टेन लिङ्गे- नातिदेशविशेषः । तद्यथा सौर्य्यचरावति- देशकानि निर्व्वापस्तद्धितेन देवतानिर्द्देश एक- देवतात्वमौषधद्रव्यकत्वमित्यादीनि स्पष्टान्याग्नेय- लिङ्गानि । द्वितीये त्वस्पष्टैर्लिङ्गैरतिदेशः । तद्- यथा वाजिने हविःसामान्येन लिङ्गेन पयो- विध्यन्तोऽतिदिश्यते तत्र लिङ्गमस्पष्टम् । शीघ्रं तद्बुद्ध्यनुत्पादनात् । तृतीये प्रबलेन लिङ्गे- नातिदेशः । तद्यथा । आभिचारिकेष्टा- वाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्बिदे- वत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीय- स्याग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः । प्रबलञ्च द्विदेवत्यत्वम् । शब्दोच्चारणमात्रेण सहसा प्रतिभासात् । क्रमस्तु विलम्बितप्रतीत्या दुर्ब्बलः । चतुर्थे दर्व्विहोमेष्वतिदेशोऽपोह्यते । नवमाध्यायस्य प्रथमे पादे उपोद्घातपूर्ब्बक- मूहविचारप्रारम्भः । तत्र प्रयाजादयो धर्म्मा अपूर्ब्बप्रयुक्ताः । अवघातमन्त्रादिष्वविवक्षितं ब्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विव- क्षितमित्यादिरूपोपोद्घातः । सवित्रश्विपूष- शब्दानां विकृतिषु नास्त्यूहः । अग्निशब्दस्या- स्त्यूह इत्यादि ऊहविचारारम्भः । द्वितीये सपरिकरः सामोहः । तृतीये मन्त्रोहः । चतुर्थे मन्त्रोहप्रसङ्गापतितो विचारः । दशमाध्यायस्य प्रथमे पादे बाधहेतुर्द्वारलोपो निरूपितः । तद्यथा स्वयं कृता वेदिर्भवतीत्यत्र वेदिनिष्पादनरूपस्य द्बारस्य लोपेन निष्पाद- कानामुद्धननादीनां बाधः । कृष्णलेषु वितुषी- करणरूपस्य द्बारस्य लोपेनावघातस्य बाधः । द्वितीये संक्षेपेणोक्तस्य द्वारलोपस्य बहुभि- रुदाहरणैर्विस्तारः । तृतीये बाधकारणं कार्य्यैकत्वम् । तद्यथा प्रकृतौ गवाश्वादिदक्षि- णायाः ऋत्विक्परिक्रयः कार्य्यम् । तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षि- णायास्तदेव कार्य्यम् ततो धेन्वा गवाश्वादि- दक्षिणाविकृतौ चोदकप्राप्ता बाध्यते । चतुर्थे नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ट- होमैः सह समुच्चीयन्ते इत्यादिः समुच्चयः । पञ्चमे षोडशिग्रहः प्रकृतिगामी । स चाग्रयण- पात्रादेव ग्रहीतव्य इत्यादिवाधप्रसङ्गागतो ग्रहादिविचारः । षष्ठे सामतृचे गेयमित्यादि- र्बाधप्रसङ्गागतः सामविचारः । सप्तमे पश्व- ङ्गेषु हविर्भेदः । गृहमेधीयमपूर्ब्बकर्म्मेत्यादि- र्बाधप्रसङ्गागतः प्रकीर्णविचारः । अष्टमेनानु- याजेष्वितिपर्य्युदासो न सोम इत्यर्थवादो नाति- रात्र इति प्रतिषेध इत्यादिर्बाधोपयुक्तो नञर्थ- विचारः । एकादशाध्यायस्य प्रथमे पादे तन्त्रस्योपोद्- धातो वर्णितः । द्वितीये तन्त्रावापौ संक्षेपे- णोक्तौ । तृतीये तन्त्रमुदाहरणबाहुल्येन प्रप- ञ्चितम् । चतुर्थे तथैवावापः प्रपञ्चितः । द्बादशाध्यायस्य प्रथमे पादे पशुधर्म्माणां पशु- पुरोडाशे प्रसङ्गः । सौमिकबेदेरुत्तरकालीन- कर्म्मसु प्रसङ्ग इत्यादि विचारः । द्बितीये सवनीयपशोस्तन्त्रित्वम् । न तु सवनीयपुरो- डाशानाम् । विकृतिस्तन्त्रिणी न प्रकृतिः । अन्वारम्भणीया विकृतिष्वपि स्यात् । न तु प्रकृतावेवेत्यादिविचारः । तृतीये त्वग्वाससोः समुच्चयः । आधारगतानामृजुत्वसन्ततत्त्वा दीनां समुच्चय इत्यादिकं प्राघान्येन । यव- ब्रोह्योर्व्विकल्प इत्यादिकं समुच्चयापवादत्वेने- त्युभयं चिन्तितम् । चतुर्थे चैन्द्राबार्हस्पत्य- याज्यानुवाक्ययुगलयोर्व्विकल्प इत्यादिकं प्राधा- न्येन । याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम् । तदेवं द्बाद- शाध्यायगतेषु षष्टिसंख्यकेषु पादेषु प्रति- पाद्या अर्थाः संगृहीताः ।” इत्यधिकरणमाला ॥ उत्तरमीमांसाध्यायपादपतिपाद्यार्था यथा, —
“शास्त्रं ब्रह्मविचाराख्यमध्यायाः स्युश्चतुर्व्विधाः । समन्वगाविरोधौ द्बौ साधनञ्चफलन्तथा ॥ समन्वये स्पष्टलिङ्गमस्पष्टत्वेप्युपास्यगम् । ज्ञेयगं पदमात्रञ्च चिन्त्यं पादेष्वनुक्रमात् ॥ द्बितीये स्मृतितर्काभ्यामविरोधोऽन्यदुष्टता । भूतभोक्तृश्रुते र्लिङ्गश्रुतेरप्यविरुद्धता ॥ तृतीये विरतिस्तत्त्वं पदार्थपरिशोधनम् । गुणोपसंहृतिज्ञांनेबहिरङ्गादि साधनम् ॥ चतुर्थे जीवतो मुक्तिरुत्क्रान्तिर्गतिरुत्तरा । ब्रह्मप्राप्तिब्रह्मलोकाविति पाणदार्थसंग्रहः ॥” इति व्यासाधिकरणमाला ॥ मीमांसाद्वयमत- संग्रहो यथा, — अथ मैमांसकम् । “मीमांसको द्विधा कर्म्मब्रह्ममीमांसकः स्मृतः । वेदान्ती मन्यते ब्रह्म कर्म्म भट्टप्रभाकरौ ॥ प्रत्यक्षमनुमानञ्च वेदाश्चोपमया सह । अर्थापत्तिरभावश्च भट्टानां षट्प्रमाण्यऽसौ ॥ प्रभाकरमते पञ्चैतान्यभावस्य वर्ज्जनात् । अद्वैतवादी वेदान्ती प्रमाणन्तु यथातथा ॥ सर्व्वमेतदिदं ब्रह्म वेदान्तेऽद्बैतवादिनाम् । आत्मन्येव लयो मुक्तिर्वैदान्तिकमते मता ॥ अकुकर्म्मा सषट्कर्म्मा शूद्रान्नादिविवर्ज्जकः । ब्रह्मसूत्री द्विजो भट्टो गृहस्थाश्रमसंस्थितः ॥ भगवन्नामधेयास्तु द्विजा वेदान्तदर्शने । विप्रगेहभुजस्त्यक्तोपवीता ब्रह्मवादिनः ॥ चत्वारो भगवद्भेदाः कुटीचरबहूदकौ । हंसः परमहंसश्चाधिकोमीषु परः परः ॥” इति जिनदत्तकृतविवेकविलासः । सर्व्वदर्शन- संग्रहधृत जैमिनिमतसंग्रहो यथा । अथातो धर्म्मजिज्ञासा इति प्रथमाधिककरणसूत्रम् । तच्चाधिकरणं पञ्चावयवमाचक्षते परीक्षकाः । अस्मिन् सूत्रे स्वाध्यायोऽध्येतव्य इतिश्रुति- वाक्यमाश्रित्य विषयसंशयपूर्ब्बपक्षसिद्धान्त- निर्णयरूपपञ्चाङ्गात्मकाधिकरणेन मीमांसा- शास्त्रारम्भस्यावश्यकता प्रदर्शिता । मीमांसा हि वेदविचारशास्त्रं तदारम्भो निष्प्रयो- जनः स्वाध्यायोऽध्येतव्य इतिश्रुत्या वेदा- ध्ययनं विहितं तत्र विश्वजिन्न्यायात् स्वर्गरूपं फलमक्षरग्रहणमात्रेणापि सम्भवति न तत्रार्थ- बोधापेक्षाप्यस्ति असत्याञ्च वेदार्थबोधापेक्षयां तदधीनायाः विचारणाया अपि अनावश्यक- त्वात् अथवा यागादिकर्म्मावबोधाय स्वाध्यायो- ऽध्येतव्यः तस्य चार्थबोधरूपं दृष्टमेवफलं ततश्च दृष्टार्थत्वेन तस्य वैधत्वाभावात् वेदार्थविचार- स्यापि तदेकप्रयोजनस्य वैधत्वं नास्तीति तद्वि- चारशास्त्रमनारम्भणीयम् । स्वाध्यायाध्ययना- नन्तरं विचारशास्त्रेऽध्येतव्यतया स्वीकृते वेद- मधीत्य स्नायादितिविधिबोधितं वेदाध्ययनसमा- वर्त्तनयोरानन्तर्य्यं बाध्येत तस्मान्नविचारशास्त्र- मारम्भणीयमितिपूर्ब्बपक्षमुद्भाव्य अध्ययनस्य दृष्ट- फलकत्वेपि अध्येतव्य इत्यत्र तव्यप्रत्ययेन भावना- प्रतिपादनात् अर्थबोधस्य तत्र भाव्यत्वेनान्वया- दध्ययनविधेरवघातादिविधिवन्नियमापूर्ब्बार्थत्वं । तथाच यथा दर्शपौर्णमासजन्यं परमापूर्ब्बमव- घातादिजन्यमवान्तरापूर्ब्बं कल्पयति तथा समस्तक्रतुजन्यमपूर्ब्बजातं क्रतुज्ञानसाधनाध्य यननियमजन्यमपूर्ब्बं कल्पयिष्यति । अन्यथा अध्ययनविधेर्वैफल्यं स्यात् । अर्थबोधरूपदृष्ट- फलस्य सम्भवे विश्वजिन्न्यायान्न स्वर्गफलकल्पना इति सिद्धान्तितम् । यथा यागे यवादेर्नखादि नापि वितुषीकरणसम्भवे अवघातविधिना अव- घातो नियम्यते तथा अध्ययनविधिना अध्ययनं नियम्यते । तथाच अध्ययनेन च वेदार्थे परि- ज्ञाते तत्र संशये तन्निर्णयार्थं विचारशास्त्र- मवश्यमपेक्षितव्यमिति विचारशास्त्रमारम्भ- णीयमेवेति प्रथमाधिकरणनिष्कर्षः एवंरीत्या अधिकरणसहस्रात्मकं कर्म्ममीमांसाशास्त्रं जैमिनिना प्रणीतम् । अस्मिन् शास्त्रे वेदस्या- पौरुषेयत्वम् । वर्णानां ककारादीनां नित्यत्वं तत्र सोऽयं क इत्यादिप्रत्यभिज्ञैव प्रमाणं कण्ठ- ताल्वाद्यभिघात एव तदभिव्यञ्जकः । ततश्च वेदस्यापौरुषेयतया निरस्तसमस्तशङ्काकलङ्का- ङ्कुरत्वेन स्वतः सिद्धं धर्म्मे प्रामाण्यमिति सुस्थि- तम् । प्रमाज्ञानस्य स्वत प्रामाण्यम् । विज्ञानसामग्री- जन्यत्वे सति तदतिरिक्तहेत्वजन्यत्वं प्रमायाः स्वतस्त्वमिति ॥