वाचस्पत्यम्
मुकुट || पु० मकि—उट पृषो० । १ शिरोभूषणे अमरः । २ अङ्गुली- मोटने स्त्री शब्दर० ङीप् ।
शब्दकल्पद्रुमः
मुकुटं || क्ली (मङ्कते मण्डयति । मकि + उटन् नलीपश्चेति न्यासः ।)
स्वनामख्यातशिरोभूष- णम् । तत्पर्य्यायः । किरीटम् २ । इत्यमरः । २ । ६ । १०२ ॥ मौलिः ३ कोटीरम् ४ उष्णी- षम् ५ । इति हेमचन्द्रः । ३ । ३१४ ॥ मकुटम् ६ मौलीकः ७ शेखरम् ८ अवतंसः ९ वतंसः १० उत्तंसः ११ उष्णीषकम् १२ कौटीरकम् १३ । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । ८६ । ७७ । “मुकुटश्चापतत्तस्य काञ्चनो वज्रभूषितः ।” तथा च महाभारते । १ । ३० । ३८ । “रजांसि मुकुटान्येषा मुत्थितानि व्यधर्षयन् ।” टाप् । स्त्री, मातृगणविशेषः । यथात्रैव । ९ । ४६ । २३ । “कालेहिका वामनिका मुकुटा चैव भारत ! ॥”)