वाचस्पत्यम्
मुक्ता || स्त्री मुच—क्त । १ रास्नायाम् रत्नमा० २ शुक्तिजे (मति) रत्नभेदे च ।
शब्दकल्पद्रुमः
मुक्ता || स्त्री (मुच्यते स्म । मोच्यते निःसार्य्यते इति वा । मुच् + क्तः । टाप् ।)
रास्ना । इति रत्नमाला ॥ रत्नविशेषः । मोती इति हिन्दी- भाषा । अस्या अधिष्ठात्री देवता चन्द्रः । इति ज्योतिषम् ॥ तत्पर्य्यायः । मौक्तिकम् २ । इत्य- मरः । २ । ९ । ९३ ॥ सौम्या ३ शौक्तिकेयम् ४ तारम् ५ तारा ६ भौतिकम् ७ तौतिकम् ८ अम्भःसारम् ९ शीतलम् १० नीरजम् ११ नक्षत्रम् १२ इन्दुरत्नम् १३ लक्ष्मीः १४ मुक्ता- फलम् १५ बिन्दुफलम् १६ मुक्तिका १७ शौक्ते- यकम् १८ शुक्तिमणिः १९ शशिप्रभम् २० स्वच्छम् २१ हिमम् २२ हिमबलम् २३ सुधां- शुभम् २४ शुधांशुरत्नम् २५ । लक्ष्मीस्थाने लक्षं शशिप्रभस्थाने शशिप्रियं हिमबलस्थाने हेम- वतं सुधांशुभस्थाने भूरुहं इति च पाठः । इति राजनिर्घण्टः ॥ शौक्तिकम् २६ । इति भाव- प्रकाशः ॥ शुक्तिबीजम् २७ हारी २८ । इति शब्दरत्नावली ॥ कुवलम् २९ । इति जटाधरः ॥ अस्या गुणाः । सारकत्वम् । शीतत्वम् । कषा- यत्वम् । स्वादुत्वम् । लेखनत्वम् । चक्षुष्यत्वञ्च । तद्धारणगुणः । पापालक्ष्मीविनाशित्वम् । इति राजवल्लभः ॥ वृष्यत्वम् । बलपुष्टिदत्वञ्च । इति भावप्रकाशः ॥ * ॥
अपि च । “मौक्तिकञ्च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहम् । राजयक्ष्मपरिकोपनाशनं क्षीणवीर्य्यबलपुष्टिवर्द्धनम् ॥” अस्या लक्षणं यथा, —
“नक्षत्राभं शुद्धमत्यन्तमुक्तं स्निग्धं स्थूलं निर्म्मलं निर्व्रणञ्च । न्यस्तं धत्ते गौरवं यत्तुलायां तन्निर्मौल्यं मौक्तिकं सौख्यदायि ॥” अस्या दोषलक्षणं यथा, —
“यद्बिच्छायं मौक्तिकं व्यङ्गकायं शुक्तिस्पर्शं रक्तताञ्चातिधत्ते । मत्स्याक्ष्यङ्कं रूक्षमुत्ताननम्रं नैतद्धार्य्यं धीमता दोषदायि ॥” अष्टधा मौक्तिकं यथा, —
“मातङ्गोरगमीनपोत्रिशिरसस्त्वक्सारशङ्घाम्बुभृ- च्छुक्तीनामुदराच्च मौक्तिकमणिः स्पष्टं भवत्य- वृधा ॥” मौक्तिकविशेषो यथा, —
“छायापाटलनीलपीतधवलास्तत्रापि सामान्यतः सप्तानां बहुशो न लब्धिरिति चेच्छौक्तेयकं तूल्यणम् ॥” * ॥
मौक्तिकपरीक्षा यथा, —
“लवणक्षारक्षोदिनि पात्रेऽजगोमूत्रपूरिते क्षिप्तम् । मर्द्दितमपि शालीतुषैर्यदविकृतं तन्मौक्तिकं जात्यम् ॥” इति राजनिर्घण्टः ॥ * ॥
तदुत्पत्तिस्थानानि यथा, —
“शङ्खो गजश्च क्रोडश्च फणी मत्स्यश्च दर्दुरः । वेणुरेते समाख्यातास्तज्ज्ञैर्मौक्तिकयोनयः ॥” इति भावप्रकाशः ॥ * ॥
अथ प्रकारान्तरमुक्तापरीक्षा । “द्बिपेन्द्रजीमूतवराहशङ्ख- मत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके- तेषान्तु शुक्त्युद्बवमेव भूरि ॥ वेध्यन्तु शुक्त्युद्भवमेव तेषां शेषाण्यवेध्यानि वदन्ति तज्ज्ञाः । मतङ्गजा ये तु विशुद्धवंश्या- स्ते मौक्तिकानां प्रभवाः प्रदिष्टाः ॥ उत्पद्यते मौक्तिकमेषु वृत्त- मापीतवर्णं प्रभया विहीनम् ॥ वक्ष्ये गजपरीक्षायां गजजातिश्चतुर्व्विधा । मौक्तिकं तेषु जातं हि चतुर्व्विधमुदीर्य्यते ॥ ब्राह्मणं पीतशुक्लन्तु क्षत्त्रियं पीतरक्तकम् । पीतश्यामन्तु वैश्यं स्यात् शूद्रं स्यात् पीत- नीलकम् ॥ काम्बोजकुम्भसम्भूतं धात्रीफलनिभं गुरु । अतिपिञ्जरसच्छायं मौक्तिकं मन्ददीधिति ॥ धाराधरेषु जायेत मौक्तिकं जलबिन्दुभिः । दुर्लभं तन्मनुष्याणां देवैस्तत् ह्रियतेऽम्बरात् ॥ कुक्कुटाण्डसमं वृत्तं मौक्तिकं निविडं गुरु । घनजं भानुसङ्काशं देवयोग्यममानुषम् ॥” * ॥
तथाहि गारुडे । “नाभ्येति मेघप्रभवं धरित्रीं वियद्गतं तद्बिबुधा हरन्ति । अर्च्चिःप्रभानावृतदिग्विभाग- मादित्यवद्दुःखविभाव्यविम्बम् ॥ तेजस्तिरस्कृत्य हुताशनेन्दु- नक्षत्रताराग्रहसम्भवञ्च । दिवा यथा दीप्तिकरन्तथैव तमोऽवगाढास्वपि तन्निशासु ॥ विचित्ररत्नद्युतिचारुतोय- चतुःसमुद्रा भवनाभिरामा । मूल्यं न वा स्यादिति निश्चयो मे कृत्स्ना मही तस्य सुवर्णपूर्णा ॥ हीनोऽपि यस्तल्लभते कथञ्चित् विपाकयोगान्महतः शुभस्य । सपत्नहीनः पृथिवीं समग्रां भुनक्ति तत्तिष्ठति यावदेव ॥ न केवलं तच्छुभकृन्नृपस्य भाग्यैः प्रजानामपि जन्म तस्य । तद्योजनानां परितः शतस्य सर्व्वाननर्थान् विमुखीकरोति ॥ जलज्योतिर्मरुज्जानां मेघानां त्रिविधं भवेत् । जलाधिकेऽधिकं स्वच्छं कोमलं पुरु कान्ति- मत् ॥ ज्योतिषं कान्तिमद्वृत्तं दुर्निरीक्षं रविप्रभम् । कान्तिमत् कोमलं वृत्तं मारुतं विमलं लघु ॥ वराहदंष्ट्राप्रभवं वरिष्ठं तस्यैव दंष्ट्राङ्कुरतुल्यवर्णम् । क्वचित् कथञ्चित् स भुवः प्रदेशे प्रजायते शूकरवद्वरिष्ठः ॥ ब्रह्मादिजातिभेदेन वराहोऽपि चतुर्व्विधः । तेषु जाता भवेन्मुक्ता समासेन चतुर्व्विधा ॥ ब्राह्मणः शुक्लवर्णस्तु शूद्रमन्तेऽस्य लक्षते । क्षत्त्रियः शुक्लरक्तस्तु स्पर्शे कर्क्कश एव च ॥ वैश्यः स्यात् शुक्लपीतस्तु कोमलः कोलसन्निभः । शूद्रः स्याच्छुक्लनीलस्तु कर्क्कशः श्याम एव च ॥” तथा च । “कोलजं कोलसदृशं तद्दंष्ट्रासदृशच्छवि । अलभ्यं मनुजै रम्यं मौक्तिकं पुण्यवर्ज्जितैः ॥ * ॥
ये कम्बवः शार्ङ्गमुखावमर्ष- पीतस्य शङ्खप्रवरस्य गोत्रे । स्यान्मौक्तिकानामिह तेषु जन्म तल्लक्षणं संप्रति कीर्त्तयामः ॥ स्वयोनिमध्यच्छवितुल्यवर्णं शङ्खाद्बृहत्कोलफलप्रमाणम् ॥ तथा च । वर्षोपलसमं दीप्त्या पाञ्चजन्यकुलोद्भवम् । कपोताण्डप्रमाणं तदतिकान्ति मनोहरम् ॥ * ॥
विशेषो यथा, —
“अश्विन्यादिकनक्षत्रे ये जाताः कम्बवः शुभाः । मौक्तिकं तेषु जातं हि सप्तविंशतिभेदभाक् ॥ शुक्लाशुक्लाः पीतरक्ता नीला लोहितपिञ्जराः । आकर्व्वुराः पाटलाश्च नववर्णाः प्रकीर्त्तिताः ॥ महन्मध्यलघून्मानैः सप्तविंशतिधा भवेत् । क्रमतस्तेषु विज्ञेयं नक्षत्रेषु मनीषिभिः ॥ * ॥
पाठीनपृष्ठस्य समानवर्णं मीनात् सुवृत्तं लघु नातिसूक्ष्मम् । उत्पाद्यते वारिचराननेषु मीनाश्च ते मध्यचराः पयोधेः ॥” तथा च । “गुञ्जाफलकायस्थौल्यं मौक्तिकं तिमिजं लघु । पाटलापुष्पसङ्काशमल्पकान्ति सुवर्त्तुलम् ॥ वातपित्तकफद्वन्द्वसन्निपातप्रभेदतः । सप्त प्रकृतयो मीने सप्तधा तेन मौक्तिकम् ॥ लघिष्ठमरुणं वातात् आपीतं मृदु पित्ततः । शुक्लं गुरु कफोद्रेकात् वातपित्तान्मृदुर्लघु ॥ वातश्लेष्मभवं स्थूलं पित्तश्लेष्मजमच्छकम् । सर्व्वलिङ्गप्रयोगेण सान्निपातिकमुच्यते ॥ एकजाः शुभदाः प्रोक्तास्तथा वै सान्नि- पातिकाः ॥ * ॥
भौजङ्गमं नीलविशुद्धवर्णं सर्व्वं भवेत् प्रज्वलवर्णशोभम् । नितान्तधौतप्रतिकल्प्यमान- निस्त्रिंशधारासमवर्णशोभम् ॥ भुजङ्गमास्ते विषवेगदृप्ताः श्रीवासुकेर्व्वंशभवाः पृथिव्याम् । क्वचित् कदाचित् खलु पुण्यदेशे तिष्ठन्ति ते पश्यति तान्मनुष्यः ॥ फणिजं वर्त्तुलं रम्यं नीलच्छायं महाद्युति । पुण्यहीना न पश्यन्ति वासुकेः कुलसम्भवम् ॥ शृगालकोलामलकोलगुञ्जा- फलप्रमाणास्तु चतुर्विधास्ते । स्युर्ब्रह्मबाहूद्भववैश्यशूद्र- सर्पेषु जाताः प्रवरास्तु सर्व्वे ॥ प्राप्यापि रत्नानि धनं श्रियंवा राजश्रियंवा महतीं दुरापाम् । तेजोऽन्विताः पुण्यकृतो भवन्ति मुक्ताफलस्यास्य विधारणेन ॥ जिज्ञासया रत्नविनिश्चयज्ञैः शुभे मुहूर्त्ते प्रयतैः प्रयत्नात् । रक्षाविधानं सुमहद्विधाय हर्म्म्योपविष्टं क्रियते यदा तत् । तदा महद्दुन्दुभितूर्य्यघोषै- र्घनैर्घनैराव्रियतेऽन्तरीक्षम् ॥ न तं भुजङ्गा न तु जातुधाना न राक्षसा नापि च दुष्टलोकाः । हिंसन्ति यस्याहिशिरःसमुत्थं मुक्ताफलं तिष्ठति कोषमध्ये ॥ भेकादिष्वपि जायन्ते मणयो ये क्वचित् क्वचित् । भौजङ्गममणेस्तुल्यास्ते विज्ञेया बुधोत्तमैः ॥ नक्षत्रमालेव दिवो विशीर्णा दन्तावली तस्य महासुरस्य । विचित्ररूपेषु विचित्रवर्णा पयःसु पत्युः पयसां पपात ॥ सम्पूर्णचन्द्रांशुकलापकान्ते- र्भणिप्रवेकस्य महागुणस्य । तच्छुक्तिमत्सुस्थितिमाप बीज- मासन् पुराप्यन्यभवानि यानि ॥ यस्मिन् प्रदेशेऽम्बुनिधौ पपात सुचारुमुक्तामणिरत्नबीजम् । तस्मिन् पयस्तोयधरावकीर्णं शुक्तौ स्थितं मौक्तिकतामवाप ॥ * ॥
सैंहलिकपारलौकिक-सौराष्ट्रिकताम्रपर्णपार- सवाः । कौवेरपाण्ड्यविराटमुक्ता इत्याकराश्चाष्टौ ॥ “स्वात्यां स्थिते रवौ मेघैर्ये मुक्ता जलबिन्दवः । शीर्णाः शुक्तिषु जायन्ते तैर्मुक्ता निर्म्मलत्विषः ॥ स्थूला मध्यास्तथा सूक्ष्मा बिन्दुमानानुसारतः । सुस्निग्धमधुरच्छायं मौक्तिकं सिंहलोद्भवम् ॥ पारलौकिकसम्भूतं मौक्तिकं निविडं गुरु । सौराष्ट्रिकभवं स्थूलं वृत्तं स्वच्छं सितं घनम् ॥ ताम्रपर्णभवं ताम्रं पीतं पारसवोद्भवम् । ईषत् श्यामञ्च रूक्षञ्च कौवेरोद्भवमौक्तिकम् ॥ पाण्ड्यदेशोद्भवं पाण्डु सितं रूक्षं विराटजम् । रुक्मिण्याख्या तु या शुक्तिस्तत्प्रसूतिः सुदुर्लभा ॥ तत्र जातं सितं स्वच्छं जातीफलसमं वरम् । छायावद्बहुलं रम्यं निर्द्दोषं यदि लभ्यते ॥ अमूल्यं तद्बिनिर्द्दिष्टं रत्नलक्षणकोविदैः । दुर्लभं नृपयोग्यं स्यादल्पभाग्यैर्न लभ्यते ॥” अन्यस्त्वाह । “सर्व्वस्य तस्याकरजा विशेषात् रूपप्रमाणे च यथैव विद्बान् । नहि व्यवस्थास्ति गुणागुणेषु सर्व्वत्र सर्व्वाकृतयो भवन्ति ॥” ब्रह्मादिजातिभेदेन शुक्तयोऽपि चतुर्व्विधाः । तासु सर्व्वासु जातं हि मौक्तिकं स्याच्चतुर्व्विधम् ॥ ब्राह्मणस्तु सितः स्वच्छो गुरुः शुक्लः प्रभान्वितः । आरक्तः क्षत्त्रियः स्थूलस्तथारुणविभान्वितः ॥ वैश्यस्त्वापीतवर्णोऽपि स्निग्धः श्वेतः प्रभान्वितः । शूद्रः शुक्लवपुः सूक्ष्मस्तथा स्थूलोऽसितद्युतिः ॥ वर्षोपलानां समवर्णशोभं त्वक्सारमध्यप्रभवं प्रदिष्टम् । ते वेणवो दिव्यजनोपभोग्ये स्थाने प्ररोहन्ति न सार्व्वजन्ये ॥ वंशजं शशिसङ्काशं कक्कोलीफलमार्द्रकम् । प्राप्यते बहुभिः पुण्यैस्तद्रक्ष्यं वेदमन्त्रतः ॥ पञ्चभूतसमुद्रेकाद्वंशे पञ्चविधे भवेत् । मुक्ता पञ्चविधा तासां यथालक्षणमुच्यते ॥ पार्थिवी गुरुवत्सा च तैजसी तेजसा लघुः । वायवी च मृदुः स्थूला गागनी कोमला लघुः । आप्याः स्निग्धा भृशं शुक्लाः पञ्चैताः प्रवरा मताः । आसां धारणमात्रेण व्याधिः कोऽपि न जायते ॥” * ॥
एवमन्यत्रापि । “गजाहिकोलमत्स्यनां शीर्षे मुक्ताफलोद्भवः । त्वक्सारशुक्तिशङ्खानां गर्भे मुक्ताफलोद्भवः ॥ धाराधरेषु जायेत मौक्तिकं जलबिन्दुभिः । जीमूते शुचिरूपञ्च गजे पाटलभास्वरम् ॥ मत्स्ये श्वेतञ्च निस्तेजः फणिन्द्रे नीलभास्वरम् । हरिच्छ्वेतं तथा वंशे पीतश्वेतञ्च शूकरे । शङ्खशुक्त्युद्भवं श्वेतं मुक्तारत्नमनुत्तमम् ॥ चतुर्धा मौक्तिके च्छाया पीता च मधुरा सिता । नीला चैव समाख्याता रत्नतत्त्वपरीक्षकैः ॥ पीता लक्ष्मीप्रदा छाया मधुरा बुद्धिवर्द्धिनी । शुक्ला यशस्करी छाया नीला सौभाग्यदायिनी ॥ सिता छाया भवेद्बिप्रः क्षत्त्रियश्चार्करश्मिवान् । पीतच्छाया भवेद्वैश्यः शूद्रः कृष्णरुचिर्म्मतः ॥ * अथ गुणाः । सुतारञ्च सवृत्तञ्च स्वच्छञ्च निर्म्मलं तथा । घनं स्निग्धञ्च सच्छायं तथा स्फुटितमेव च । अष्टौ गुणाः समाख्याता मौक्तिकानामशेषतः ॥ तद्यथा, — तारकाद्युतिसङ्काशं सुतारमिति गद्यते । सर्व्वतो वर्त्तुलं यच्च सुवृत्तं तन्निगद्यते ॥ स्वच्छं दोषविनिर्म्मुक्तं निर्म्मलं मलवर्ज्जितम् । गुरुत्वं तुलने यस्य तद्घनं मौक्तिकं वरम् ॥ स्नेहेनैव विलिप्तं यत्तत् स्निग्धमिति गद्यते । छायासमन्वितं यच्च सच्छायं तन्निगद्यते ॥ व्रणरेखाविहीनं यत्तत् स्यादस्फुटितं शुभम् ॥ भ्राजिष्णु कोमलं कान्तं मनोज्ञं स्फुरतीव च । स्रवतीव च सत्त्वानि तन्महारत्नसंज्ञितम् ॥ श्वेतकाचसमाकारं शुभ्रांशुशतयोजितम् । शशिराजप्रतिच्छायं मौक्तिकं देवभूषणम् ॥” * ॥
गारुडे । त्वक्सारनागेन्द्रतिमिप्रभूतं यच्छङ्खजं यच्च वराहजातम् । प्रायो वियुक्तानि भवन्ति भासा शस्तानि माङ्गल्यतया तथापि ॥ प्रमाणवद्गौरवरश्मियुक्तं सितं सुवृत्तं समसूक्ष्मरन्ध्रम् । अक्रेतुरप्यावहति प्रमोदं यन्मौक्तिकं तद्गुणवत् प्रदिष्टम् ॥ एवं समस्तेन गुणोदयेन यन्मौक्तिकं योगमुपागतं स्यात् । न तस्य भर्त्तारमनर्थजात एकोऽपि दोषः समुपैति सद्यः ॥ एवं सर्व्वगुणोपेतं मौक्तिकं येन धार्य्यते । तस्यायुर्व्वर्द्धते लक्ष्मीः सर्व्वपापं प्रणश्यति ॥ गुणवद्गुरु यद्देहे मौक्तिकैकं हि तिष्ठति । चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति ॥” दोषो यथा, —
“चत्वारः स्युर्महादोषाः षण्मध्याश्च प्रकीर्त्तिताः । एवं दश समाख्यातास्तेषां वक्ष्यामि लक्षणम् ॥ यत्रैकदेशे संलग्नः शुक्तिखण्डो विभाव्यते । शुक्तिलग्नः समाख्यातः स दोषः कुष्ठकारकः ॥ मीनलोचनसङ्काशो दृश्यते मौक्तिके तु यः । मत्स्याक्षः स तु दोषः स्यात् पुत्त्रनाशकरो ध्रुवम् ॥ दीप्तिहीनं गतच्छायं जठरं तद्विदुर्व्वुधाः । तस्मिन् संधारिते मृत्युर्जायते नात्र संशयः ॥ मौक्तिकं विद्रुमच्छायमतिरक्तं विदुर्व्वुधाः । दारिद्रजनकं यस्मात् तस्मात्तत् परिवर्जयेत् ॥ उपर्य्युपरि तिष्ठन्ति बलयो यत्र मौक्तिके । त्रिवृत्तं नाम तस्योक्तं सौभाग्यक्षयकारकम् । अवृत्तं मौक्तिकं यच्च चिपिटं यन्निगद्यते । मौक्तिकं घ्रियते येन तस्याकीर्त्तिर्भवेत् सदा ॥ त्रिकोणं त्र्यस्रमाख्यातं सौभाग्यक्षयकारकम् । दीर्घं यत्तत् कृशं प्रोक्तं प्रज्ञाविध्वंसकारकम् ॥ निर्भग्नमेकतो यच्च कृशपार्श्वं तदुच्यते । सदोषं मौक्तिकं निन्द्यं निरुद्योगकरं हि तत् । अवृत्तं पिडकोपेतं सर्व्वसम्पत्तिहारकम् ॥ * ॥
यत्र कृत्रिमसन्देहः क्वचिद्भवति मौक्तिके । उष्णे सलवणे स्नेहे निशान्तद्वासयेज्जले ॥ ब्रीहिभिर्मर्दनीयंवा शुष्कवस्त्रोपवेष्टितम् । यत्तु नायाति वैवर्ण्यं विज्ञेयं तदकृत्रिमम् ॥ * ॥
तथा हि । क्षिपेद्गोमूत्रभाण्डे तु लवणक्षारसंयुते । स्वेदयेद्घह्निना वापि शुष्कवस्त्रेण वेष्टयेत् ॥ हस्ते मौक्तिकमादाय ब्रीहिभिश्चोपघर्षयेत् । कृत्रिमं भङ्गमाप्नोति सहजञ्चाति दीप्यते ॥ कृत्वा पचेत् सुपिहिते शुभदारभाण्डे मुक्ताफलं निहितनूतनशुक्तिकाण्डम् । स्फीटन्तथा प्रणिदधीत ततश्च भाण्डात् । संस्थाप्य धान्यनिचये च तमेकमासम् ॥ आदाय तत् सकलमेव ततोऽन्नभाण्डं जम्बीरजातरसयोजनया विपक्वम् । घृष्टं ततो मृदुतनूकृतपिण्डमूलैः कुर्य्याद्यथेच्छमिह मौत्तिकमाशु विद्धम् ॥ मृल्लिप्तमत्स्यपुटमध्यगतन्तु कृत्वा पश्चात् पचेत्तनु ततश्च वितानपत्या । दुग्ध ततः पयसि तद्बिपचेत् सुरायां पक्वन्ततोऽपि पयसा शुचि चिक्वणेन । शुद्धं ततो विमलवस्त्रनिघर्षणेन स्यात् मौक्तिकं विमलसद्गुणकान्तिजालम् ॥” अथ मूल्यम् । “पञ्चभिर्माषको ज्ञेयो गुञ्जाभिर्माषकैस्तथा । चतुर्भिः शाणमाख्यातं माषकैर्मणिवेदिभिः ॥ एकस्य शुक्तिप्रभवस्य शुद्ध- मुक्तामणेः शाणकसम्मितस्य । मूल्यं सहस्राणि कपर्द्दकानि त्रिभिः शतैरभ्यधिकानि पञ्च ॥ यन्माषकार्द्धेन ततो विहीनं चतुःसहस्रं लभतेऽस्य मूल्यम् । यन्माषकांस्त्रीन् बिभृयाद्गुरुत्वे द्वे तस्य मूल्यं परमं प्रदिष्टम् ॥ अर्द्धाधिकद्बौ वहतोऽस्य मूल्यं त्रिभिः शतैरभ्यधिकं सहस्रम् । द्विमाषकोन्मापितगौरवस्य शतानि चाष्टौ कथितानि मूल्यम् ॥ अर्द्धाधिकमाषकसम्मितस्य सपञ्चविंशं त्रितयं शतानाम् । यन्माषकोन्मापितमानमेकं तस्याधिकं विंशतिभिः शतं स्यात् ॥ गुञ्जाश्च षड्धारयतः शते द्वे मूल्यं परं तस्य वदन्ति तज्ज्ञाः । गुञ्जाश्चतस्रो विधृतं शतार्द्धा- दर्द्धं लभेताप्यधिकं त्रिभिर्व्वा ॥ अतः परं स्याद्धरणप्रमाणं संख्याविनिर्द्देशविनिश्चयोक्तिः । त्रयोदशानां धरणे धृतानां हिक्केति नाम प्रवदन्ति तज्ज्ञाः ॥ अध्यर्द्धमात्रञ्च शतं कृतं स्यान्- मूल्यं गुणैस्तस्य समन्वितस्य । यदि षोडषभिर्भवेत् सुपूर्णं धरणं तत्प्रवदन्ति दार्व्विकाख्यम् ॥ अधिकं दशभिः शतञ्च मूल्यं समवाप्नोत्यपि बालिशस्य हस्तात् । यदि विंशतिभिर्भवेत् सुपूर्णं धरणं मौक्तिकजं वदन्ति तज्ज्ञाः ॥ नवसप्ततिमाप्नुयात् स्वमूल्यं यदि न स्याद्गुणयुक्तितो विहीनम् ॥ त्रिंशता धरणं पूर्णं शिक्येति परिकीर्त्त्यते । चत्वारिंशत्परं तस्य मूल्यमेष विनिश्चयः ॥ चत्वारिंशत् भवेत् शिक्या त्रिशन्मूल्यं लभेत सा । पञ्चाशत्तु भवेत् सोमस्तस्य मूल्यन्तु विंशतिः ॥ षष्टिर्निकरशीर्षं स्यात्तस्य मूल्यं चतुर्द्दश । अशीतिर्नवतिश्चेति कुप्येति परिकल्प्यते ॥ एकादश स्युर्नव च तयोर्मूल्यमनुक्रमात् । शतमर्द्धाधिकं द्वे च चूर्णोऽयं परिकीर्त्तितः ॥ सप्त पञ्च त्रयश्चैव तेषां मूल्यमनुक्रमात् ॥ शाणात् परं माषकमेकमेकं यावद्बिवर्द्धेत गुणैरपीदम् । मूल्येन तावद्द्विगुणेन योग- माप्नोत्यनावृष्टिहतेऽपि देशे ॥ सूक्ष्मातिसूक्ष्मोत्तममध्यमानां यन्मौक्तिकानामिह मूल्यमुक्तम् । तज्जातिमात्रेण न जातु कार्य्यं गुणैरहीनस्य हि तत् प्रदिष्टम् ॥ यत्तु चन्दांशुसङ्काशमीषद्विम्बफलाकृति । स्वमूल्यात् सप्तमं भागमवृत्तत्वाल्लभेत तत् ॥ पीतकस्य भवेदर्द्धमवृत्तस्य त्रिभागतः । विषमव्यस्तजातीनां षड्भागं मूल्यमादिशेत् ॥ अर्द्धरूपाणि सस्फोटात् पङ्कचूर्णानि यानि च । असाराणि च यानि स्युः करकाकारवन्ति च ॥ एकदेशप्रभावन्ति सकलाश्लेषितानि च । यानि चातकवर्णानि कांस्यवर्णानि यानि च ॥ मीननेत्रसवर्णानि ग्रन्थिभिः संवृतानि च । सदोषाणि च यानि स्युस्तेषां मूल्यं पदांशिकम् ॥ अन्यत्र तु । सञ्चाली प्रोच्यते गुञ्जा सा तिस्रो रूपकं भवेत् । रूपकैर्दशभिः प्रोक्तः कलञ्जो नाम नामतः ॥ कलञ्जनामकं द्रव्यमेकदेशे निघापयेत् । अन्यतो जलबिन्दूंस्तु तोलनार्थं विनिःक्षिपेत् ॥ चत्वारि त्रीणि युग्मंवा तथैकं बहु वा स्थितम् । समं कलञ्जमानेन तुलामानादतः क्रमात् ॥ नवमात् पञ्चमं याबत् कलञ्जेन समं यदा । तत्क्रमादुत्तमं ज्ञेयं मौक्तिकं रत्नवेदिभिः ॥ चतुर्द्दशात् समारभ्य दशसंख्याविधिं क्रमात् । कलञ्जस्य समानं वा मौक्तिकं मध्यमं विदुः ॥ आरभ्य विंशतितमात् क्रमात् पञ्चदशावधि । लङ्घ्यास्ताः कथिता मुक्ता मूल्यञ्च तदनुक्रमात् ॥ कलञ्जद्वयमानेन यद्येकं मौक्तिकं भवेत् । न धार्य्यं नरनाथैस्तु देवयोग्यममानुषम् ॥ इत्थं विचार्य्य यो मुक्तां परिधत्ते नराधिपः । तस्यायुश्च यशो वीर्य्यं विपरीतमतोऽन्यथा ॥” इति युक्तिकल्पतरुः ॥ (अथास्याः शोधनम् । “स्वेदयेद्दोलिकायन्त्रे जयन्त्याः स्वरसेन च । मणिमुक्ताप्रबालानि यामैकं शोधनं भवेत् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥)
अन्यत् मुक्ताफलशब्दे द्रष्टवम् ॥ * ॥
अथ मुक्ताधारणदिनम् । “रेवत्यश्विधनिष्ठासु हस्तादिषु च पञ्चसु । शङ्खविद्रुममुक्तानां परिधानं प्रशस्यते ॥” इति समयप्रदीपः ॥