संस्कृत-शब्दकोशः

मुक्ति मुक्तिमण्डप

मुक्तिदं

शब्दकल्पद्रुमः

मुक्तिदं || क्ली (मुक्तिं ददातीति । मुक्ति + दा + कः ।)
भगवन्नामविशेषः । यथा, —
“अल्पाक्षरञ्च बह्वर्थं महासारञ्च मुक्तिदम् । नानासिद्धिप्रदातारं परं चित्तानुरञ्जकम् ॥ गुह्यात् गुह्यतरं चान्यन्नाम चाष्टाक्षरं परम् । मन्त्रं सुखसमुच्चार्य्यमशेषार्थप्रसाधकम् ॥ प्राह नारायणायेति नमोऽन्ताद्यों नियोगतः । ओमित्येकाक्षरे मन्त्रे स्थितः सर्व्वगतो हरिः । माधवायेति वै नाम धर्म्मकामार्थमोक्षदम् ॥” इति वह्निपुराणम् ॥ मुक्तिदातरि, त्रि ॥ (यथा, देवीभागवते । १ । २ । १० । “तां ध्यात्वा सगुणां मायां मुक्तिदां निर्गुणा- न्तथा ॥”)



Correction: