संस्कृत-शब्दकोशः

मुक्तिदं मुक्तिमुक्त

मुक्तिमण्डप

वाचस्पत्यम्

मुक्तिमण्डप ||‍ पु० मुक्तिप्रदो मण्डपुः शाक० त० । १ काशीस्थे २ जगन्नाथक्षेत्रस्थे च मण्डपभेदे तीर्थे ।


शब्दकल्पद्रुमः

मुक्तिमण्डपः || पुं, (मुक्तिदायकः मण्डपः । यद्वा मुक्तेर्मण्डपः ।)
विश्वेश्वरस्य दक्षिणपार्श्वस्थ- मण्डपः । यथा, —
“निमेषमात्रं स्थितचित्तवृत्ता- स्तिष्ठन्ति ये दक्षिणमण्डपेऽत्र । अनन्यभावा अपि गाढमानसा न ते पुनर्गर्भदशामुपासते ॥” इति काशीखण्डम् ॥ श्रीजगन्नाथमन्दिरदक्षिणपार्श्वस्थमण्डपश्च ॥



Correction: