वाचस्पत्यम्
मुखधौता || स्त्री धौतं मुखं यया धाव—क्त ऊठ् परनि० । ब्राह्मणयष्टौ (वामनहाटि) शब्दच० ।
शब्दकल्पद्रुमः
मुखधौता || स्त्री (मुखं धौतं मार्ज्जितमनेनेति । धाव् + कर्म्मणि + क्तः स्त्रियां टाप् ।) ब्राह्मण- यष्टिका । इति शब्दचन्द्रिका ॥