संस्कृत-शब्दकोशः

मुखोल्का मुख्यसर्ग

मुख्य

वाचस्पत्यम्

मुख्य ||‍ त्रि० मुखे आदौ भवः यत् । १ प्रथमकल्पे अमरः २ श्रेष्ठे च ।


शब्दकल्पद्रुमः

मुख्यः || त्रि श्रेष्ठः । इत्यमरः । ३ । १ । ५७ ॥ (तथास्य पर्य्यायः । “प्रधानमुत्तमं रम्यं श्रेष्ठं मुख्यमनुत्तमम् । वरं वरेण्यं प्रमुखं परार्द्धं प्रवरन्तथा ॥” इति वैद्यकरत्नमालायाम् ॥ यथा, भागवते । ४ । २५ । ४९ । “मुख्यानामपुरस्ताद्द्वास्तयापणबहूदनौ ॥”)


शब्दकल्पद्रुमः

मुख्यः || पुं, प्रथमः कल्पः । इत्यमरः । २ । ७ । ४० ॥ यागादिषु शास्त्रोक्तः प्रथमः कल्पो मुख्यः स्यात् । यथा, ब्रीहिभिर्यजेतेत्यादिना उत्कृष्ट- त्वात् मुखमिव मुख्यः विकारसंघेत्यादिना इवार्थे यः । इति तट्टीकायां भरतः ॥



Correction: