संस्कृत-शब्दकोशः

मुण मुण्डक

मुण्ड

वाचस्पत्यम्

मुण्ड ||‍ न० मुडि—कर्मणि घञ् । १ मस्तके अमरः । २ वोले ३ मुण्डा- यसे च राजनि० ४ दैत्यभेदे, ५ राहुग्रहे पु० मेदि० । ६ नापिते जटा० ७ स्थाणुवृक्षे च पु० । ८ मुण्डिते त्रि० । ९ महाश्रावणिकायां १० मुण्डीरिकायाञ्च स्त्री टाप् मेदि० २ उपनिषद्भेदे “मुण्डमाण्डूक्यतित्तिरिः” ।


शब्दकल्पद्रुमः

मुण्डं || क्ली (मुण्ड्यन्ते उप्यन्ते केशा अस्मात् यद्बा, मुण्डते मज्जतीति । मुण्ड + अच् ।)
शिरः । इति नपुंसकलिङ्गसंग्रहे अमरः । ३ । ५ । ३४ ॥ (यथा, मोहमुद्गरे । १५ । “अङ्गं गलितं पलितं मुण्डं दन्तविहीनं यातं तुण्डम् । करधृतकम्पितशोभितदण्डं तदपि न मुञ्चत्याशाभाण्डम् ॥” उपनिषद्विशेषः । तदुक्तं यथा, —
“ईशाकेनकठप्रश्नमुण्डमाण्डुक्यतित्तिरि । छान्दोग्यं बृहदारण्यमैतरेयं तथा दश ॥”)
वोलम् । मुण्डायसम् । इति राजनिर्घण्टः ॥


शब्दकल्पद्रुमः

मुण्डः || त्रि मुण्डितः । इत्यमरः । २ । ६ । ४८ ॥ द्वे मुण्डितमुण्डे । मुडि खण्डने भावे घञि मुण्डो मुण्डनं केशापनयनं तद्योगात् अर्श आद्यचि मुण्डः पुमान् स्त्रियां मुण्डा । इत्यमरटीकायां भरतः ॥ (यथा, महाभारते । १ । ११९ । ८ । ‘चरन् भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ॥’)


शब्दकल्पद्रुमः

मुण्डः || पुं, (मुण्डनं मुण्डः केशापनयनं मुडि खण्डने भावे घञ् । ततः अर्श आद्यच् इत्यमर- टीकायां रायभरतौ ।)
वलिराजस्य सैनिक- दैत्यविशेषः ॥ (यथा, हरिवंशे भविष्यपर्व्वणि । २३२ । ५ । “एकाक्ष एकपान्मुण्डो विद्युदक्षश्चतुर्भुजः ।” शुम्भसेनापतिर्दैत्यभेदः । यथा, माकण्डेयपुराणे । ८७ । २८ । “हे चण्ड ! हे मुण्ड ! वलैर्बहुलैः परिवारितौ ।”)
मुण्डमेवावयवत्वेनास्त्यस्य । अच् ।)
राहुग्रहः । इति मेदिनी । डे, २२ ॥ (मुण्डं मुण्डनं जीवि- कात्वेनास्त्यस्य । अच् ।)
नापितः । इति जटाधरः ॥ (मुण्डनं स्कन्धावच्छेदे खण्डनम- स्त्यस्य । अच् ।)
स्थाणुवृक्षः । इति केचित् ॥


शब्दकल्पद्रुमः

मुण्डः || पुं, क्ली, (मुण्ड + अच् ।)
मूर्द्धा । इति मेदिनी । डे, २२ ॥



Correction: