संस्कृत-शब्दकोशः

मुदा मुदिता

मुदित

शब्दकल्पद्रुमः

मुदितः || त्रि (मुद् + क्त । यद्बा, मुदा अस्य जाता । मुदा + इतच् ।)
आनन्दितः । यथा, —
“आर्त्तार्त्ते मुदिता हृष्टे प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ साध्वी ज्ञेया पतिव्रता ॥” इति शुद्धितत्त्वम् ॥ आलिङ्गनविशेषः । तस्य लक्षणं यथा । नायि- कया नायकस्य वामपार्श्वे उषित्वा वामपादं तस्योरुद्वयमध्ये स्थापयित्वा उभौ मिलित्वा यदवस्थानम् । इति कामशास्त्रम् ॥



Correction: