वाचस्पत्यम्
मुदिर || पु० मुद—किरच् । १ मेघे अमरः २ भेके च संक्षिप्तसा० ३ कामुके त्रि० मेदि० ।
शब्दकल्पद्रुमः
मुदिरः || पुं, (मोदन्ते अनेन प्रजा इति । मुद् + “इषिमदिमुदीति ।” उणा० १ । ५२ । इति किरच् ।)
मेघः । इत्यमरः । १ । ३ । ७ ॥ (यथा, — गीतगोविन्दे । २ । ३ । “प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिर- सुवेशम् ।”)
कामुकः । इति मेदिनी । रे, २०५ । भेकः । इति संक्षिप्तसारोणादिवृत्तिः ॥