वाचस्पत्यम्
मुद्गर || न० मुदं गिरति गॄ—अच् । १ माल्लकाभेदे २ लोष्टभेदने (मुगुर) मेदि० । ३ पुष्पप्रधानवृक्षभेदे ४ कर्मारवृक्षे (काम- राङ्गा) च पु० राजनि० । स्वार्थे क । तत्रैव ।
शब्दकल्पद्रुमः
मुद्गरं || क्ली (मुदं आनन्दं गिरति विकिरतीति । गॄ + अच् ।)
मल्लिकाभेदः । लोष्टादिभेदने, पुं । इति मेदिनी । रे, २०४ ॥ (यथा, महाभारते । १ । २११ । ३ । “गदापट्टिशधारिण्या शूलमुद्गरहस्तया । प्रस्थितौ सहधर्म्मिण्या महत्या दैत्यसेनया ॥”)
शब्दकल्पद्रुमः
मुद्गरः || पुं, (मुद् + गॄ + अच् ।)
कर्म्मारवृक्षः । पुष्पवृक्षविशेषः । तत्पर्य्यायः । गन्धसारः २ सप्तपत्रः ३ अतिगन्धः ४ गन्धराजः ५ विट- प्रियः ६ प्रियः ७ जनेष्टः ८ मृगेष्टः ९ । अस्य गुणाः । मधुरत्वम् । शीतत्वम् । सुरभित्वम् । सौख्यदायकत्वम् । मनोजकारित्वम् । मधु- पानन्दकारित्वम् । पित्तप्रकोपनाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अस्त्रविशेषः । मुगुर इति भाषा । तत्पर्य्यायः । द्रुघणः २ घनः ३ । इत्यमरः ॥ द्रुघनः ४ । इति भरतः ॥ प्रघणः ५ । इति जटाधरः ॥ मुद्गरः कोरकास्त्रयोः । इति हेमचन्द्रः ॥ (यथा, रघौ । १२ । ७३ । “पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः ॥”)