संस्कृत-शब्दकोशः

मुद्गार्द्रवट मुद्राङ्कित

मुद्रा

वाचस्पत्यम्

मुद्रा ||‍ स्त्री मुद—रक । १ प्रत्ययकारिण्याम् (मोहर) त्रिका० २ अङ्गुलिस्थे मुद्राङ्कनयुक्ताङ्गुलीयके शब्दर० ३ स्वर्णरौप्या- दितङ्कायाम ४ अप्रकाशे । “मुद्रालिपिः शिल्पलिपिर्लिपि- र्लेखनिसम्भवा । गुण्डिकाघुणसम्भूता लिपयः पञ्चधा मताः” इत्युक्तलिपिमध्ये ५ लिपिभेदे वाराहीतन्त्रम् । “लेखन्या लिखितं विप्रैर्मुद्वाभिरङ्कितञ्च यत् । शिल्पा- दिनिर्मितं यच्च पाठ्यं धार्य्यञ्च सर्वदा” मुण्डमालात० । ६ तन्त्रप्रसिद्धे वीराचरसेव्ये “पृथुकास्तण्डुला भ्रष्टा गोधूमचणकादयः । तस्य नाम भवेन्मुद्रा” इत्युक्ते पञ्च- मकारान्तर्गतद्रव्यभेदे ७ देवविशेषाराधनायाङ्गुल्यादिसन्नि- वेशविशेषे तन्त्रसारः “योजनात् सर्वदेवानां द्रावणात् पापसहतेः । तस्मात् मुद्रेति सा ख्याता सर्वकामार्थ- साधनी “मुद्रामक्षगुणमि” ति तन्त्रम् ८ सङ्कोचे च ।


शब्दकल्पद्रुमः

मुद्रा || स्त्री (मोदते अनयेति । मुद् + “स्फायि- तञ्चीत्यादि ।” उणा० २ । १३ । इति रक् अतः टाप् ।)
प्रत्ययकारिणी ॥ इति त्रिकाण्ड- शेषः । नामेर मोहर इति भाषा ॥ अङ्गुलि- मुद्रा । इति शब्दरत्नावली ॥ छापेर आङ्गुटी इति भाषा । स्वर्णरौप्यादिमुद्रिका च । (यथा, अभिज्ञानशाकुन्तले । २ । “इमां मुद्रां त्वदङ्गुलौ निवेशयता मया ।” चिह्नम् । यथा, श्रीमद्भागवते । ३ । २४ । १७ । “ज्ञानविज्ञानयोगेन कर्म्मणामुद्धरन् जटाः । हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः ॥”)
मोहर टाका इत्यादि भाषा । इति लोक- प्रसिद्धिः ॥ * ॥
पञ्चधालिप्यन्तर्गतलिपिविशेषः । छापार अक्षर इति भाषा । यथा, —
“मुद्रालिपिः शिल्पलिपिर्लिपिर्लेखनिसम्भवा । गुण्डिकाघुणसम्भूता लिपयः पञ्चधा स्मृताः । एताभिर्लिपिभिर्व्याप्ता धरित्रीं शुभदा हर ! ॥” इति वाराहीतन्त्रम् ॥ “लेखन्या लिखितं विप्रैर्मुद्राभिरङ्कितञ्च यत् ॥ शिल्पादिनिर्म्मितं यच्च पाठ्यं धार्य्यञ्च सर्व्वदा ॥ इति खड्गमालातन्त्रम् ॥ * ॥
पञ्चमकारान्तर्गतभृष्टद्रव्यविशेषः । यथा, —
“पृथुकास्तण्डुला भृष्टा गोधूमचणकादयः । तस्य नाम भवेद्देवि ! मुद्रा मुक्तिप्रदायिनी ॥” इति निर्व्वाणतन्त्रे ११ पटलः ॥ तस्याः शोधनं यथा, —
“ॐ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुराततम् । ॐ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते विष्णोर्यत् परमं पदम् । इति मन्त्राभ्यां शाधनम् । इति स्वतन्त्रतन्त्रम् ॥ शरीरे धार्य्यभगवदायुधादिचिह्नम् । छाप इति भाषा । यथा, —
“ततो नारायणीं मुद्रां धारयेत् प्रीतये हरेः । मत्स्यकूर्म्मादिचिह्नानि चक्रादीन्यायुधानि च ॥ अथ मुद्राधारणनित्यता स्मृतौ । “अङ्कितः शङ्खचक्राभ्यामुभयोर्व्वाहुमूलयोः । समर्च्चयेद्धरिं नित्यं नान्यथा पूजनं भवेत् ॥” आदिपुराणे । “शङ्खचक्रोर्द्ध्वपुण्ड्रादिरहितं ब्राह्मणाधमम् । गर्द्दभं तु समारोप्यराजा राष्ट्रात् प्रवासयेत् ॥” गारुडे श्रीभगवदुक्तौ । “सर्व्वकर्म्माधिकारश्च शुचीनामेव चोदितः । शुचित्वञ्च विजानीयान्सदीयायुधधारणात् ॥” इति पाद्मे चोत्तरखण्डे । “शङ्खचक्रादिभिश्चिह्नैर्विप्रः प्रियतमैर्हरेः । रहितः सर्व्वधर्म्मेभ्यः प्रच्युतो नरकं व्रजेत् ॥” श्रुतौ च यजुःकठशाखायाम् । “धृतोर्द्ध्वपुण्ड्रः कृतचक्रधारी विष्णुं परं ध्यायति यो महात्मा । स्मरेण मन्त्रेण सदा हृदि स्थितं परात्परं यन्महतो महान्तम् ॥” अथर्व्वणि च । ‘एभिर्व्वयमुरुक्रमस्य चिह्नै- रङ्किता लोके शुभगा भवेम ।’ तद्विष्णोः परमं पदं ये गच्छन्ति लाञ्छिताः । इत्यादि ॥ अतएव ब्रह्मपुराणे । ‘कृष्णायुधाङ्कितं दृष्ट्वा सम्मानं न करोति यः । द्बादशाब्दार्जितं पुण्यञ्चाफलायोपगच्छति ॥’ * ॥
अथ मुद्राधारणमाहात्म्यम् । स्कान्दे श्रीसनत्कुमारमार्कण्डेयसम्बादे । ‘यो विष्णुभक्तो विप्रेन्द्र ! शङ्खचक्रादिचिह्नितः । स याति विष्णुलोकं वै दाहप्रलयवर्जितम् ॥’ तत्रैवान्यत्र । ‘नारायणायुधैर्नित्यं चिह्नितं यस्य विग्रहम् । पापकोटिप्रयुक्तस्य तस्य किं कुरुते यमः ॥ शङ्खोद्धारे तु यत् प्रोक्तं वसतां वर्षकोटिभिः । तत् फलं लिखिते शङ्खे प्रत्यहं दक्षिणे भुजे ॥ यत् फलं पुष्करे नित्यं पुण्डरीकाक्षदर्शने । शङ्खोपरिकृते पद्मे तत् फलं समवाप्नुयात् ॥ वामे भुजे गदा यस्य लिखिता दृश्यते कलौ । गदाधरो गयापुण्यं प्रत्यहं तस्य यच्छति ॥ यच्चानन्दपुरे प्रोक्तं चक्रस्वामिसमीपतः । गदाधो लिखिते चक्रे तत् फलं कृष्णदर्शने ॥’ श्रीभगवदुक्तौ च । ‘यः पुनः कलिकाले तु मत्पुरीसम्भवां मृदम् । मत्स्यकूर्म्मादिकं चिह्नं गृहीत्वा कुरुते नरः ॥ देहे तस्य प्रविष्टोऽहं जानन्तु त्रिदशोत्तमाः । तस्य मे नान्तरं किञ्चित् कर्त्तव्यं श्रेय इच्छता ॥ ममावतारचिह्नानि दृश्यन्ते यस्य विग्रहे । मर्त्यैर्मर्त्यो न विज्ञेयः स नूनं मामकी तनुः ॥ पापं सुकृतरूपन्तु जायते तस्य देहिनः । ममायुधानि यस्याङ्गे लिखितानि कलौ युगे ॥ उभाभ्यामपि चिह्नाभ्यां योऽङ्कितो मत्स्य- मुद्रया । कूर्म्मयापि स्वकं तेजो निक्षिप्तं तस्य विग्रहे ॥ शङ्खञ्च पद्मञ्च गदां रथाङ्गं मत्स्यञ्च कूर्म्मं रचितं स्वदेहे । करोति नित्यं सुकृतस्य वृद्धिं पापक्षयं जन्मशतार्जितस्य ॥’ तत्रैव श्रीब्रह्मनारदसंवादे । ‘कृष्णशस्त्राङ्ककवचं दुर्भेद्यं देवदानवैः । अधृष्यं सर्व्वभूतानां शत्रूणां रक्षसामपि ॥ लक्ष्मीः सरस्वती दुर्गा सावित्री हरवल्लभा । नित्यं तस्य वसेद्देहे यस्य शङ्खाङ्किता तनुः ॥ गङ्गा गया कुरुक्षेत्रं प्रयागं पुष्करादि च । नित्यं तस्य सदा तिष्ठेद्यस्य पद्माङ्कितं वपुः ॥ यस्य कौमोदकीचिह्नं भुजे वाथ कलिप्रिय ! । प्रत्यहं तत्र द्रष्टव्यो गङ्गासागरसङ्गमः ॥ सव्ये करे गदाधस्ताद्रथाङ्गं तिष्ठते यदि । कृष्णेन सहितं तत्र त्रैलोक्यं सचराचरम् ॥ त्रयोऽग्रयस्त्रयो देवा विष्णोस्त्रीणि पदानि च । निवसन्ति सदा तस्य यस्य देहे सुदर्शनम् ॥’ किञ्च । ‘कृष्णायुधाङ्किता मुद्रा यस्य नारायणी करे । ऊर्द्ध्वलोकाधिकारी च स ज्ञेयस्त्रिदशां पतिः ॥ कृष्णमुद्राप्रयुक्तस्तु दैवं पित्र्यं करोति यः । नित्यं नैमित्तिकं काम्यं प्रत्यहञ्चाक्षयं भवेत् ॥ पीडयन्ति न तत्रैव ग्रहा ऋक्षाणि राशयः । अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी करे ॥’ वाराहे श्रीसनत्कुमारोक्तौ । ‘कृष्णायुधाङ्कितं देहं गोपीचन्दनमृत्स्नया । प्रयागादिषु तीर्थेषु स गत्वा किं करिष्यति ॥ यदा यस्य प्रपश्येत देहं शङ्खादिचिह्नितं । तदा तदा जगत्स्वामी तुष्टो हरति पातकम् ॥ भवते यस्य देहे तु अहोरात्रं दिने दिने । शङ्खचक्रगदापद्मं लिखितं सोऽच्युतः स्वयम् ॥ नारायणायुधैर्युक्तं कृत्वात्मानं कलौ युगे । कुरुते पुण्यकर्म्माणि मेरुतुल्यानि तस्य वै ॥ शङ्खादिनाङ्कितो भक्त्या श्राद्धं यः कुरुते द्बिजः । विधिहीनन्तु संपूर्णं पितॄणान्तु गयासमम् ॥ यथाग्निर्दहते कक्षं वायुना प्रेरितो भृशम् । तथा दह्यन्ति पापानि दृष्ट्वा कृष्णायुधानि वै ॥’ ब्राह्म्ये श्रीब्रह्मनारदसंबादे । ‘विष्णुनामाङ्कितां मुद्रां अष्टाक्षरसमन्विताम् । शङ्खादिकायुधैर्युक्तां स्वर्णरूप्यमयीमपि ॥ धत्ते भागवतो यस्तु कलिकाले विशेषतः । प्रह्रादस्य समो ज्ञेयो नान्यथा कलिवल्लभ ! ॥’ किञ्च । ‘शङ्खाङ्किततनुविंप्रो भुङ्क्ते यस्य च वेश्मनि । तदन्नं स्वयमश्नाति पितृभिः सह केशवः ॥ कृष्णायुधाङ्कितो यस्तु श्मशाने म्रियते यदि । प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य नारद ! ॥ कृष्णायुधैः कलौ नित्यं मण्डितं यस्य विग्रहम् । तत्राश्रयं प्रकुर्व्वन्ति विबुधा वासवादयः ॥ यः करोति हरेः पूजां कृष्णशस्त्राङ्कितो नरः । अपराधसहस्राणि नित्यं हरति केशवः ॥ कृत्वा काष्ठमयं विम्बं कृष्णशस्त्रैस्तु चिह्नितम् । यो ह्यङ्कयति चात्मानं तत्समो नास्मि वैष्णवः ॥ पाषण्डपतितव्रात्यैर्नास्तिकालापपातकैः । न लिप्यते कलिकृतैः कृष्णशस्त्राङ्कितो नरः ॥’ किञ्च । ‘अष्टाक्षराङ्किता मुद्रा यस्य धातुमया भवेत् । शङ्खपद्मादिभिर्युक्ता पूज्यतेऽसौ सुरासुरैः ॥ धृता नारायणी मुद्रा प्रह्रादेन पुरा कृता । विभीषणेन बलिना ध्रुवेण च शुकेन च ॥ मान्धातृणाम्बरीषेण मार्कण्डप्रमुखैर्द्बिजैः । शङ्खादिचिह्नितैः शस्त्रैर्देहे कृत्वा कलिप्रिय ! । आराध्य केशवात् प्राप्तं समीहितफलं महत् ॥’ किञ्च । ‘गोपीचन्दनमृत्स्नाया लिखितं यस्य विग्रहे । शङ्खपद्मादिचक्रं वा तस्य देहे वसेद्धरिः ॥’ तत्रैव श्रीसनत्कुमारोक्तौ । ‘यस्य नारायणी मुद्रा देहे शङ्खादिचिह्निता । धात्रीफलकृता माला तुलसीकाष्ठसम्भवा ॥ द्बादशाक्षरमन्त्रैस्तु नियुक्तानि कलेवरे । आयुधानि च विप्रस्य मत्समः स च वैष्णवः ॥’ किञ्च । ‘यस्य नारायणी मुद्रा देहे शङ्खादिचिह्निता । सर्व्वाङ्गं चिह्नितं यस्य शस्त्रैर्नारायणोद्भवैः ॥ प्रवेशो नास्ति पापस्य कवचं तस्य वैष्णवम् ॥’ अन्यत्र च । ‘एभिर्भागवतैश्चिह्नैः कलिकाले द्विजातयः । भवन्ति मर्त्यलोके ते शापानुग्रहकारकाः ॥’ * ॥
अथ मुद्राधारणविधिः । गौतमीये । “ललाटे च गदा कार्य्या मूर्द्ध्नि चापः शरःस्तथा । नन्दकञ्चैव हृन्मध्ये शङ्खचक्रं भुजद्वये ॥ शङ्खचक्राङ्कितो विप्रः श्मशाने म्रियते यदि । प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य गौतम ! ॥ चक्रञ्च दक्षिणे बाहौ शङ्खं वामेऽपि दक्षिणे । गदां वामे गदाधस्तात् पुनश्चक्रञ्च धारयेत् ॥ शङ्खोपरि तथा पद्मं पुनः पद्मञ्च दक्षिणे । खड्गं वक्षसि चापञ्च शरं शिरसि धारयेत् ॥ इति पञ्चायुधान्यादौ धारयेद्बैष्णवो जनः । मत्स्यञ्च दक्षिणे हस्ते कूर्म्मं वामकरे तथा ॥’ तथा चोक्तम् । ‘दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् । मत्स्यं पद्मञ्चापरेऽथ शङ्खं कूर्म्मं गदां तथा ॥ साम्प्रदायिकशिष्टानामाचाराच्च यथारुचि । शङ्खचक्रादिचिह्नानि सर्व्वेव्वङ्गेषु धारयेत् ॥ भक्त्या निजेष्ठदेवस्य धारयेल्लक्षणान्यपि । चक्रशङ्खौ च धार्य्येते संमिश्रावेव कैश्चन ॥’ यत उक्तं ब्रह्मवैवर्त्ते । ‘केवलं नोद्वहेच्छङ्खमादौ चासुरविग्रहम् । अतश्चक्रविमिश्रं तं बिभृयाद्वैष्णवः सदा ॥ श्रीगोपीचन्दनेनैवं चक्रादीनि बुधोऽन्वहम् । धारयेच्छयनादौ तु तप्तानि किल तानि हि ॥’ अथ चक्रादीनां लक्षणानि । ‘द्वादशाक्षरन्तु षट्कोणं बलयत्रयसंयुतम् । चक्रं स्याद्दक्षिणावर्त्तः शङ्खश्च श्रीहरेः स्मृतः ॥ गदापद्मादिकं लोकसिद्धमेव मतं बुधैः । मुद्रा च भगवान्नाम्नाङ्किता याष्टाक्षरादिभिः ॥’ इति श्रीहरिभक्तिविलासः ॥ * ॥
अपि च । ‘यथा मुद्रा शीतलाख्या तथा तप्ता न संशयः । तप्तायाः शीतलायाश्च विभेदो नैव वर्त्तते ॥ नामचिह्नादिना देहे वह्निना वा मृदाङ्कनम् । सा दीक्षा प्रोच्यते भूप ! वाह्यानां ज्ञानिना- मपि ॥ वैष्णवैर्विष्णुभक्तेश्च ब्राह्मणैर्वेदपारगैः । सन्धार्य्या सतिला मुद्रा गोपीचन्दनसंयुता ॥’ इति नारदपञ्चरात्रम् ॥ ‘कृष्णनामाक्षरैर्गात्रमङ्कयेच्चन्दनादिना । स लोकपावनो भूत्वा विष्णुलोकमवाप्नुयात् ॥ अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमूलयोः । अङ्कयित्वा जपेन्मन्त्रं संसारान्मोक्षमाप्नुयात् ॥’ इति पद्मपुराणम् ॥ ‘तन्नाम्ना चाङ्कितं सर्व्वं वसनं भाजनादिकम् ।’ इति हारीतस्मृतिः ॥ * ॥
देवताविशेषप्रीतिजनिकाङ्गुलिरचना । यथा, मुद्रापदव्युत्पत्तिमाह तन्त्रे । ‘मोदनात् सर्व्वदेवानां द्रावणात् पापसन्ततेः । तस्मान्मुद्रेति सा ख्याता सर्व्वकामार्थसाधनी ॥ अथ मुद्राः प्रवक्ष्यामि सर्व्वतन्त्रेषु कल्पिताः । याभिर्व्विरचिताभिश्च मोदन्ते मन्त्रदेवताः ॥ अर्च्चने जपकाले च ध्याने काम्ये च कर्म्मणि । स्नाने चावाहने शङ्खे प्रतिष्ठायाञ्च रक्षणे ॥ नैवेद्ये च तथान्यत्र तत्तत्कल्पप्रकाशिते । स्थाने मुद्राः प्रद्रष्टव्याः स्वस्वलक्षणलक्षिताः ॥ आवाहनादिका मुद्रा नव साधारणा मताः । तथा षडङ्गमुद्राश्च सर्व्वमन्त्रेषु योजयेत् ॥ एकोनविंशतिर्म्मुद्रा विष्णोरुक्ता मनीषिभिः । शङ्खचक्रगदापद्मवेणुश्रीवत्सकौस्तुभाः ॥ वनमाला तथा ज्ञानमुद्रा विल्वाह्वया तथा । गरुडाख्या परा मुद्रा विष्णोः सन्तोषवर्द्धिनी ॥ नारसिंही च वाराही हायग्रीवी धनुस्तथा । बाणमुद्रा ततः परशुर्ज्जगन्मोहनिका परा ॥ काममुद्रा पराख्याता शिवस्य दश मुद्रिकाः । लिङ्गयोनित्रिशूलाख्यामालेष्टाभीमृगाह्वयाः । खट्वाङ्गा च कपालाख्या डमरुः शिवतोषदाः ॥ सूर्य्यस्यैकैव पद्माख्या सप्तमुद्रा गणेशितुः । दन्तपाशाङ्कुशा विघ्नपरशुलड्डुकसंज्ञिताः । बीजपूराह्वया मुद्रा विज्ञेया विघ्नपूजने ॥ पाशाङ्कुशवराभीतिखड्गचर्म्मधनुःशराः । मौषली मुद्रिका दौर्गी मुद्राः शक्तेः प्रियङ्कराः ॥ लक्ष्मीमुद्रार्च्चने लक्ष्म्या वाग्वादिन्याश्च पूजने । अक्षमाला तथा वीणाव्याख्यापुस्तकमुद्रिकाः ॥ सप्तजिह्वाह्वया मुद्रा विज्ञेया वह्निपूजने । मत्स्यमुद्रा च कूर्म्माख्या लेलिहा मुण्डसंज्ञिका ॥ महायोनिरिति ख्याता सर्व्वसिद्धिसमृद्धिदा । शक्त्यर्च्चने महायोनिः श्यामादौ मुण्डमुद्रिका ॥ मत्स्यकूर्म्मलेलिहाख्या मुद्रा साधारणी मता । तारार्च्चने विशेषास्तु कथ्यन्ते पञ्च मुद्रिकाः ॥ योनिश्च भूतिनी चैव बीजाख्या दैत्यधूमिनी । लेलिहानेति संप्रोक्ताः पञ्चमुद्राः प्रकाशिताः ॥ दशका मुद्रिका ज्ञेयास्त्रिपुरायाः प्रपूजने । संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः । खेचरी बीजयोन्याख्या त्रिखण्डा परिकीर्त्तिताः ॥ कुम्ममुद्राभिषेके स्यात् पद्ममुद्रासने तथा । कालकर्णी प्रयोक्तव्या विघ्नप्रशमकर्म्मणि ॥ गालिनी च प्रयोक्तव्या जलशोधनकर्म्मणि । श्रीगोपालार्च्चने वेणुर्नृहरेर्नारसिंहिका ॥ वराहस्य च पूजायां वाराहाख्यां प्रयोजयेत् । हयग्रीवार्च्चने चैव हायग्रीवीं प्रदर्शयेत् ॥ रामार्च्चने धनुर्व्वाणमुद्रे परशुस्तथार्च्चने । परशुरामस्य विज्ञेया जगन्मोहनसंज्ञिका ॥ वासुदेवाह्वया ध्याने कुन्तमुद्रा तु रक्षणे । सर्व्वत्र प्रार्थने चैव प्रार्थनाख्यां प्रयोजयेत् ॥ * ॥
उद्देशानुक्रमादासामुच्यन्ते लक्षणान्यथ । हस्ताभ्यामञ्जलिं बद्ध्वानामिकामूलपर्व्वणोः ॥ अङ्गुष्ठौ निक्षिपेत् सेयं मुद्रा त्वावाहनी स्मृता । १ । अधोमुखी त्वियं चेत् स्यात् स्थापनी मुद्रिका स्मृता ॥ २ ॥ उच्छ्रिताङ्गुष्ठमुष्ट्योस्तु संयोगात् सन्निधापनी । ३ । अन्तःप्रवेशिताङ्गुष्ठा सैव संबोधनी मता ॥ ४ ॥ उत्तानमुष्टियुगला संमुखीकरणी मता । ५ । देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः ॥ ६ ॥ सव्यहस्तकृता मुष्टिर्दीर्घाधोमुखतर्ज्जनी । अवगुण्ठनमुद्रेयमभितो भ्रामिता मता ॥ ७ ॥ अन्योन्याभिमुखाश्लिष्टा कनिष्ठानामिका पुनः । तथैव तर्ज्जनी मध्या धेनुमुद्रा प्रकीर्त्तिता ॥ अमृतीकरणं कुर्य्यात्तया साधकसत्तमः । ८ । अन्योन्यग्रथिताङ्गुष्ठा प्रसारितपराङ्गुली ॥ महामुद्रेयमुदिता परमीकरणे बुधैः । प्रयोजयेदिमा मुद्रा देवताह्वानकर्म्मणि ॥ ९ ॥ * ॥
वैष्णवीनान्तु मुद्राणां कथ्यन्ते लक्षणान्यथ । वामाङ्गुष्ठन्तु संगृह्य दक्षिणेन तु मुष्टिना ॥ कृत्वोत्तानं ततो मुष्टिमङ्गुष्ठन्तु प्रसारयेत् । वामाङ्गुल्यस्तथाश्लिष्टाः संयुक्ताः स्युः प्रसारिताः ॥ दक्षिणाङ्गुष्ठसंस्पृष्टा ज्ञेयैषा शङ्खमुद्रिका । १ । हस्तौ तु संमुखौ कृत्वा सन्नतप्रोथिताङ्गुली ॥ तलान्तर्मिलिताङ्गुष्ठौ सुभुग्नौ सुप्रसारितौ । कनिष्ठाङ्गुष्ठकौ लग्नौ मुद्रैषा चक्रसंज्ञिका ॥ २ ॥ अन्योन्याभिमुखौ हस्तौ कृत्वा तु ग्रथिताङ्गुली । अङ्गुल्यौ मध्यमे भूयः सुलग्ने सुप्रसारिते ॥ गदा मुद्रेयमुदिता विष्णोः सन्तोषवर्द्धिनी । ३ । हस्तौ तु संमुखौ कृत्वा सन्नतप्रोथिताङ्गुली ॥ तलान्तर्मिलिताङ्गुष्ठौ कृत्वैषा पद्ममुद्रिका । ४ । ओष्ठे वामकराङ्गुष्ठो लग्नस्तस्य कनिष्ठिका ॥ दक्षिणाङ्गुष्ठसंयुक्ता तत्कनिष्ठा प्रसारिता । तर्जनीमध्यमानामाः किञ्चित्संकुच्य चालिताः ॥ वेणुमुद्रा भवत्येषा सुगुप्ता प्रेयसी हरेः । ५ । अन्योन्यपृष्ठकरयोर्मध्यमानामिकाङ्गुली ॥ अङ्गुष्ठेन तु बध्नीयात् कनिष्ठामूलसंस्थिते । तर्जन्यौ कारयेदेषा मुद्रा श्रीवत्ससंज्ञिका ॥ ६ ॥ अनामापृष्ठसंलग्ना दक्षिणस्य कनिष्ठिका । कनिष्ठयान्यया बद्ध्वा तर्ज्जन्या दक्षया तथा ॥ वामानामाञ्च बध्नीयात् दक्षिणाङ्गुष्ठमूलके । अङ्गुष्ठमध्यभे वामे संयोज्य सरलाः पराः ॥ चतस्रोऽप्यग्रसंलग्ना मुद्रा कौस्तुभसंज्ञिका । ७ । स्पृशेत् कण्ठादिपादान्तं तर्ज्जन्याङ्गुष्ठया तथा ॥ करद्वयेन मालावत् मुद्रेयं वनमालिका । ८ । तर्ज्जन्यङ्गुष्ठकौ सक्तावग्रतो विन्यसेत् हृदि ॥ वामहस्ताम्बुजं वामजानुमूर्द्धनि विन्यसेत् । ज्ञानमुद्रा भवेदेषा रामचन्द्रस्य प्रेयसी ॥ ९ ॥ अङ्गुष्ठं वाममुद्दण्डितमितरकराङ्गुष्ठकेनापि बद्धा तस्याग्रं पीडयित्वाङ्गुलिभिरपि च ता वाम- हस्ताङ्गुलीभिः । बद्ध्वा गाढं हृदि स्थापयतु विमलधीर्व्याहरन् मारबीजं विल्वाख्या मुद्रिकैषा स्फुटमिह गदिता गोप- नीया विधिज्ञैः ॥ १० ॥ हस्तौ तु विमुखौ कृत्वा ग्रथयित्वा कनिष्ठिके । मिथस्तर्ज्जनिके श्लिष्टे श्लिष्टावङ्गुष्ठकौ तथा ॥ मध्यमानामिके द्वे तु द्वौ पक्षाविव चालयेत् । एषा गरुडमुद्रा स्याद्विष्णोः सन्तोषवर्द्धिनी ॥ ११ ॥ जानुमध्ये करौ कृत्वा चिवुकौष्ठौ समावुभौ । हस्तौ तु भूमिसंलग्नौ कम्पमानः पुनः पुनः ॥ मुखं विवृतकं कुर्य्यात् लेलिहानाञ्च जिह्विकाम् । नारसिंही भवेदेषा मुद्रा तत्प्रीतिवर्द्धिनी ॥’ अथवा । ‘अङ्गुष्ठाभ्यान्तु करयोस्तथाक्रम्य कनिष्ठिके । अधोमुखीभिः सर्व्वाभिर्म्मुद्रेयं नृहरेर्म्मता ॥ १२ ॥ देवोपरि करं वामं कृत्वोत्तानमधः सुधीः । नमयेदिति संप्रोक्ता मुद्रा वाराहसंज्ञिका ॥’ यद्वा । ‘दक्षहस्तञ्चोर्द्ध्वमुखं वामहस्तमधोमुखम् । अङ्गुल्यग्रन्तु संयुक्तं मुद्रां वाराहसंज्ञिका ॥ १३ ॥ वामहस्ततले दक्षा अङ्गुलीस्तास्त्वधोमुखीः । संरोप्य मध्यमां तासामुन्नम्याधो विकुञ्चयेत् ॥ हयग्रीवप्रिया मुद्रा तन्मूर्त्तेरनुकारिणी । १४ । वामस्य मध्यमाग्रन्तु तर्ज्जन्यग्रेण योजयेत् ॥ अनामिकां कनिष्ठाञ्च तस्याङ्गुष्ठेन पीडयेत् । दर्शयेद्वामके स्कन्धे धनुर्म्मुद्रेयमीरिता ॥ १५ ॥ दक्षमुष्टेस्तु तर्ज्जन्या दीर्घैषा बाणमुद्रिका ।’ १६ । यद्बा ज्ञानार्णवे । ‘यथा हस्तगतं चापं तथा हस्तं कुरु प्रिये ! । चापमुद्रेयमाख्याता वामहस्ते व्यवस्थिता ॥ १७ ॥ यथा हस्तगता बाणास्तथा हस्तं कुरु प्रिये ! । बाणमुद्रेयमाख्याता रिपुवर्गनिकृन्तनी ॥ १८ ॥ तले तलन्तु करयोस्तिर्य्यक् संयोज्य चाङ्गुलीः । संहताः प्रसृताः कुर्य्यात् मुद्रा परशुसंज्ञिका ॥ १९ उच्छ्रिताङ्गुष्ठमुष्टी द्वे मुद्रा त्रैलोक्यमोहिनी ॥ २० ॥ हस्तौ तु संपुटौ कृत्वा प्रसृताङ्गुलिकौ तथा । तर्ज्जन्यौ मध्यमापृष्ठे अङ्गुष्ठौ मध्यमाश्रितौ । काममुद्रेयमुदिता सर्व्वदेवप्रियङ्करी ॥ २१ ॥ * ॥
महादेवप्रियाणान्तु कथ्यन्ते लक्षणान्यथ । उच्छ्रितं दक्षिणाङ्गुष्ठं वामाङ्गुष्ठेन वेष्टयेत् ॥ वामाङ्गुलीर्द्दक्षिणाभिरङ्गुलीभिश्च बन्धयेत् । लिङ्गमुद्रेयमाख्याता शिवसान्निध्यकारिणी ॥ १ ॥ मिथः कनिष्ठिके बद्ध्वा तर्ज्जनीभ्यामनामिके । अनामिकोर्द्ध्वसंश्लिष्टदीर्घमध्यमयोरधः ॥ अङ्गुष्ठाग्रद्वयं न्यस्येत् योनिमुद्रेयमीरिता । २ । अङ्गुष्ठेन कनिष्ठान्तु बद्ध्वा शिष्टाङ्गुलीत्रयम् ॥ प्रसारयेत् त्रिशूलाख्या मुद्रैषा परिकीर्त्तिता । ३ अङ्गुष्ठतर्ज्जन्यग्रेतु ग्रथयित्वाङ्गुलित्रयम् ॥ प्रसारयेदक्षमाला मुद्रेयं परिकीर्त्तिता । ४ । अधःस्थितो दक्षहस्तः प्रसृतो वरमुद्रिका ॥ ५ ॥ ऊर्द्ध्वीकृतो वामहस्तः प्रसृतोऽभयमुद्रिका । ६ । मिलितानामिकाङ्गुष्ठं मध्यमाग्रे नियोजयेत् ॥ श्लिष्टाङ्गुल्युच्छ्रिते कुर्य्यात् मृगमुद्रेयमीरिता । ७ पञ्चाङ्गुल्यो दक्षिणास्तु मिलिता ह्यूर्द्ध्वमुन्नताः ॥ खट्वाङ्गमुद्रा विख्याता शिवस्यातिप्रिया मता । ८ । पात्रवद्बामहस्तन्तु कृत्वाङ्गे वामके तथा ॥ निधायोच्छ्रितवत् कुर्य्यात् मुद्रा कापालिकी मता । ९ । मुष्टिञ्च शिथिलां बद्ध्वा ईषदुच्छ्रितमध्यमाम् ॥ दक्षिणामूर्द्ध्वमुन्नम्य कर्णदेशे प्रचालयेत् । एषा मुद्रा डमरुका सर्व्वविघ्नविनाशिनी ॥ १० ॥ * ॥
तथा गणेशमुद्राणामुच्यन्ते लक्षणान्यथ । उत्तानोर्द्ध्वमुखी मध्या सरला बद्धमुष्टिका ॥ दन्तमुद्रा समाख्याता सर्व्वागमविशारदैः । १ । वाममुष्टेस्तु तर्ज्जन्या दक्षमुष्टेस्तु तर्ज्जनीम् ॥ संयोज्याङ्गुष्ठकाग्राभ्यां तर्ज्जन्यग्रे स्वके क्षिपेत् । एषा पाशाह्वया मुद्रा विद्बद्भिः परिकीर्त्तिता ॥ २ ॥ ऋज्वीञ्च मध्यमां कृत्वा तर्ज्जनीमध्यपर्व्वणि । संयोज्याकुञ्चयेत् किञ्चिन्मुद्रैषाङ्कुशसंज्ञिका ॥ ३ ॥ तर्ज्जनीमध्यमानामाकनिष्ठाङ्गुष्ठमुष्टिका । अधोमुखी दीर्घरूपा मध्यमा विघ्नमुद्रिका ॥ ४ ॥ परशुमुद्रा ५ निगदिता प्रसिद्धा लड्डुमुद्रिका । ६ । बीजपूराह्वया मुद्रा प्रसिद्धत्वादुपेक्षिता ॥ ७ ॥ * ॥
शाक्तेयीनाञ्च मुद्राणां कथ्यन्ते लक्षणान्यथ । पाशा १ ङ्कुश २ वरा ३ भीति ४ धनु ५ र्ब्बाणाः समीरिताः ॥ ६ ॥ कनिष्ठानामिके बद्ध्वा स्वाङ्गुष्ठेनैव दक्षतः । श्लिष्टाङ्गुली तु प्रसृते संश्लिष्टे खड्गमुद्रिका ॥ ७ ॥ वामहस्तं तथा तिर्य्यक् कृत्वा चैव प्रसार्य्य च । आकुञ्चिताङ्गुलीः कुर्य्यात् चर्म्ममुद्रेयमीरिता ॥ ८ मुष्टिं कृत्वा तु हस्ताभ्यां वामस्योपरिदक्षिणम् । कुर्य्यान्मुसलमुद्रेयं सर्व्वविघ्नविनाशिनी ॥ ९ ॥ मुष्टिं कृत्वा कराभ्याञ्च वामस्योपरि दक्षिणाम् । कृत्वा शिरसि संयोज्य दुर्गा मुद्रेयमीरिता ॥ १० ॥ चक्रमुद्रां तथा बद्ध्वा मध्यमे द्वे प्रसार्य्य च । कनिष्ठिके तथानीय तदग्रेऽङ्गुष्ठकौ क्षिपेत् ॥ लक्ष्मीमुद्रा परा ह्येषा सर्व्वसम्पत्प्रदायिनी ॥ १ ॥ वीणावादनवद्धस्तौ कृत्वा सञ्चालयेच्छिरः । वीणामुद्रेयमाख्याता सरस्वत्याः प्रियङ्करी । १ । वाममुष्टिं स्वाभिमुखीं कृत्वा पुस्तकमुद्रिका । २ । दक्षिणाङ्गुष्ठतर्ज्जन्यावग्रलग्ने पराङ्गुलीः ॥ प्रसार्य्य संहतोत्ताना एषा व्याख्यानमुद्रिका । ३ । श्रीरामस्य सरस्वत्या अत्यन्तप्रेयसी मता ॥ * ॥
मणिबन्धस्थितौ कृत्वा प्रसृताङ्गुलिकौ करौ । कनिष्ठाङ्गुष्ठयुगले मिलित्वान्तः प्रसारयेत् ॥ सप्तजिह्वाख्यमुद्रेयं वैश्वानरप्रियङ्करी । १ । * । कनिष्ठाङ्गुष्ठकौ सक्तौ करयोरितरेतरम् ॥ तर्ज्जनी मध्यमानामा संहता भुग्नवर्ज्जिता । मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता ॥ दक्षाङ्गुष्ठं पराङ्गुष्ठे क्षिप्त्वा हस्तद्वयेन तु । सावकाशामेकमुष्टिं कुर्य्यात् सा कुम्भमुद्रिका ॥ मुष्ट्योरूर्द्ध्वीकृताङ्गुष्ठौ तर्ज्जन्यग्रे तु विन्यसेत् । सर्व्वेरक्षाकरी ह्येषा दन्तमुद्रा प्रकीर्त्तिता ॥ * ॥
प्रसृताङ्गुलिकौ हस्तौ मिथःश्लिष्टौ च संमुखौ । कुर्य्यात् स्वे हृदये स्रेयं मुद्रा प्रार्थनसंज्ञिका ॥ * ॥
अञ्जल्यञ्जलिमुद्रा स्याद्बासुदेवाह्वया च सा । अङ्गुष्ठावुन्नतौ कृत्वा मुष्ट्योः संलग्नयोर्द्वयोः ॥ तावेवाभिमुखौ कुर्य्यात् मुद्रैषा कालकर्णिका । * । दक्षिणा निविडा मुष्टिर्नासिकार्पिततर्ज्जनी ॥ मुद्रा विस्मयसंज्ञा स्यात् विस्मयावेशकारिणी । मुष्टिरूर्द्ध्वीकृताङ्गुष्ठा दक्षिणा नादमुद्रिका ॥ तज्जन्यङ्गुष्ठसंयोगादग्रतो बिन्दुमुद्रिका । * । अधोमुखे वामहस्ते ऊर्द्ध्वास्यं दक्षहस्तकम् ॥ क्षिप्त्वाङ्गुलीरङ्गुलीभिः संग्रथ्य परिवर्त्तयेत् । एषा संहारमुद्रा स्यात् विसर्ज्जनविधौ स्मृता ॥ दक्षपाणिपृष्ठदेशे वामपाणितलं न्यसेत् । अङ्गुष्ठौ चालयेत् सम्यक् मुद्रेयं मत्स्यरूपिणी ॥ वामहस्तस्य तर्ज्जन्यां दक्षिणस्य कनिष्ठया । तथा दक्षिणतर्जन्यां वामाङ्गुष्ठेन योजयेत् ॥ उन्नतं दक्षिणाङ्गुष्ठं वामस्य मध्यमादिकाः । अङ्गुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च ॥ वामस्य पितृतीर्थेन मध्यमानामिके तथा । अधोमुखे च ते कुर्य्यात् दक्षिणस्य करस्य च ॥ कूर्म्मपृष्ठसमं कुर्य्यात् दक्षपाणिञ्च सर्व्वतः । कूर्म्ममुद्रेयमाख्याता देवताध्यानकर्म्मणि ॥’ पृष्ठे क्रोडे ॥ * ॥
‘अन्तराङ्गुष्ठमुष्टिन्तु कृत्वा वामकरस्य च । मध्यमाग्रं दक्षिणस्य तथालम्ब्य प्रयत्नतः ॥ मध्यमेनाथ तर्जन्यामङ्गुष्ठाग्रेण योजयेत् । दक्षिणं योजयेत् पाणिं वाममुष्टौ तु साधकः ॥ दर्शयेद्दक्षिणे भागे मुण्डमुद्रेयमुच्यते ॥ * ॥
तर्जनीमध्यमानामाः समं कुर्य्यादधोमुखम् । अनामायां क्षिपेद्वृद्धां ऋज्वीं कृत्वा कनि- ष्ठिकाम् ॥ लेलिहा नाम मुद्रेयं जीवन्यासे प्रकीर्त्तिता । तर्जन्यनामिकामध्याकनिष्ठाक्रमयोगतः ॥ करयोर्योजयत्येव कनिष्ठामूलयोगतः । अङ्गुष्ठाग्रे तु निःक्षिप्य महायोनिः प्रकीर्त्तिता ॥’ ताराया योन्यादिमुद्रा — यथा । योनिमुद्रा च वक्तव्या भूतिनी वक्तव्या बीजाख्यापि ॥ ‘परिवर्त्त्य करौ स्पृष्टौ कनिष्ठाकृष्टमध्यमे । अनामायुगलञ्चाधस्तर्जनीयुगलं पृथक् ॥ अन्योन्यं निविडं बद्ध्वाङ्गुष्ठाग्रेऽनामिके ततः । दानवधूमकेत्वाख्या मुद्रैषा कथिता प्रिये ! ॥ अस्यास्तु बन्धनान्मन्त्री बन्धनान्मुच्यते ध्रुवम् ॥ वक्त्वं विस्तारितं कृत्वाप्यधो जिह्वाञ्च चालयेत् । पार्श्वस्थं मुष्टियुगलं लेलिहानेति कीर्त्तिता ॥’ एषा ताराराधनेऽन्या लेलिहाना वक्तव्या । ‘योनिर्मायाधरः सेन्दुर्बधूः कूर्च्चः क्रमाद्विदुः । बीजानि चोच्चरन् मन्त्री मुद्राबन्धनमा चरेत् ॥ तर्जन्यङ्गुष्ठसंयोगादग्रतो बिन्दुमुद्रिका । वामकेश्वरतन्त्रोक्ताः प्रकाश्यन्तेऽथ मुद्रिकाः ॥ शृणु देवि ! प्रवक्ष्यामि मुद्राः सर्व्वार्थसिद्धिदाः । याभिर्विरचिताभिस्तु सान्निध्यं त्रैपूरं भवेत् ॥ परिवर्त्त्य करौ स्पृष्टावङ्गुष्ठौ कारयेत् समौ । अनामान्तर्गते कृत्वा तर्जन्यौ कुटिलाकृती ॥ कनिष्ठिके नियुञ्जीत निजस्थाने महेश्वरि ! । त्रिखण्डेयं समाख्याता त्रिपुराध्यानकर्म्मणि ॥ मध्यमामध्यगे कृत्वा कनिष्ठेऽङ्गुष्ठरोधिते । तर्ज्जन्यौ दण्डवत् कृत्वा मध्यमोपर्य्यनामिके । एषा च प्रथमा मुद्रा सर्व्वसंक्षोभकारिणी ॥ एतस्या एव मुद्राया मध्यमे सरले यदा । क्रियेते परमेशानि ! सर्व्वविद्राविणी तदा ॥ मध्यमातर्जनीभ्याञ्च कनिष्ठानामिकें समे । अङ्कुशाकाररूपाभ्यां मध्यमे परमेश्वरि ! ॥ अङ्गुष्ठौ तु नियुञ्जीत कनिष्ठानामिकोपरि । इयमाकर्षिणी मुद्रा त्रैलोक्याकर्षिणी परा ॥ पुटाकारौ करौ कृत्वा तर्जन्यावङ्कुशाकृती । परिवर्त्तक्रमेणैव मध्यमे तदधोगते ॥ क्रमेण देवि ! तेनैव कनिष्ठानामिके तथा । संयोज्य निविडाः सर्व्वा अङ्गुष्ठावग्रदेशतः ॥ मुद्रेयं परमेशानि ! सर्व्ववश्यकरी मता । सम्मुखौ तु करौ कृत्वा मध्यमामध्यगेऽन्त्यजे ॥ अनामिके तु सरले तद्बहिस्तर्जनीद्वयम् । दण्डाकारौ तदङ्गुष्ठौ मध्यमानखदेशगौ ॥ मुद्रैषोन्मादिनी नाम्ना कर्षिणी सर्ब्बयोषिताम् । अस्यास्त्वनामिकायुग्ममधः कृताङ्कुशाकृती ॥ तर्जन्यावपि तेनैव क्रमेण विनियोजयेत् । इयं महाङ्कुशा मुद्रा सर्व्वकामार्थसाधिनी ॥ * ॥
सव्यं दक्षिणदेशे तु सव्यदेशे तु दक्षिणम् । बाहुं कृत्वा महादेवि ! हस्तौ संपरिवर्त्त्य च । कनिष्ठेऽनामिके देवि ! युक्ते तेन क्रमेण च । तर्जनीभ्यां समाक्रान्ते सर्व्वोर्द्ध्वमपि मध्यमे ॥ अङ्गुष्ठौ तु महेशानि ! सरलावपिं कारयेत् । इयं सा खेचरी नाम्ना पार्थिवस्थानयोजिता ॥ परिवर्त्त्य करौ स्पृष्टावर्द्धचन्द्राकृती प्रिये ! । तर्जन्यङ्गुष्ठयुगलं युगपत् कारयेत्ततः ॥ अधः कनिष्ठावष्टब्धे मध्यमे विनियोजयेत् । तथैव कुटिले योज्ये सर्व्वाधस्तादनामिके । बीजमुद्रेयमचिरात् सर्व्वसिद्धिविवर्द्धिनी । * । मध्यमे कुटिले कृत्वा तर्जन्युपरिसंस्थिते ॥ अनामिके मध्यगते तथैव हि कनिष्ठिके । सर्व्वा एकत्र संयोज्या अङ्गुष्ठपरिपीडिताः ॥ एषा तु परमा मुद्रा योनिमुद्रेयमीरिता । * । एता मुद्रा महेशानि ! त्रिपुराया मयोदिताः । पूजाकाले प्रयोक्तव्या यथानुक्रमयोगतः ॥ वामहस्तेन मुष्टिन्तु बद्धा कर्णप्रदेशके । तर्ज्जनीं सरलां कृत्वा भ्रामयेन्मनुवित्तमः ॥ सौभाग्यदण्डिनी मुद्रा न्यासकालेऽपि सूचिता । अन्तरङ्गुष्ठमुष्ट्या तु निरुध्य तर्जनीमिमाम् ॥ रिपुजिह्वाग्रहा मुद्रा न्यासकाले तु सूचिता । बद्ध्वा तु योनिमुद्रां वै मध्यमे कुटिले कुरु ॥ अङ्गुष्ठेन तदग्रे तु मुद्रेयं भूतिनी मता । * । वाममुष्टिं विधायाथ तर्जनीमध्यमे ततः ॥ प्रसार्य्य तर्जनीमुद्रा निर्द्दिष्टा वज्रपाणिना ॥’ इति तन्त्रसारे मुद्राप्रकरणं समाप्तम् ॥ * ॥
* ॥
अपि च । ‘उक्ताः स्तवनमस्काराः शृणुतं पुरतो युवाम् । मुद्राणां परिसंख्यानं स्वरूपञ्च यथाक्रमम् ॥ धेनुश्च सम्पुटश्चैव प्राञ्जलिर्व्विल्वपद्मकौ । नाराचो मुण्डदण्डौ च योनिरर्द्धं तथैव च ॥ वन्दनी च महामुद्रा महायोनिस्तथैव च । भगश्च पुटकश्चैव निःशङ्कोऽथार्द्धचन्द्रकः ॥ अङ्गञ्च द्विमुखञ्चैव शङ्खमुद्राय मुष्टिकः । वज्रञ्चैव तथा बद्धं सयोनिर्व्विमलस्तथा ॥ घटः शिखरिणी तुङ्गः पुण्ड्रोऽथ ह्यर्द्धधेनुकः ॥ संमीलनी च कुण्डञ्च चक्रं शूलं तथैव च ॥ सिंहवक्त्रं गोमुखञ्च प्रोन्नामोन्नमनं तथा । विम्बं पाशुपतं शुद्धं त्यागोऽथ साधनी तथा ॥ प्रसाधनी चोग्रमुद्रा कुण्डली व्यूहमेव च । त्रिमुखञ्चासिवल्ली च योगो भेदोऽथ मोहनम् ॥ बाणो धनुश्च तूणीरं मुद्रा एतास्तु सत्तमाः । अष्टोत्तरशतं मुद्रा ब्रह्मणा याः प्रकीर्त्तिताः ॥ तासान्तु पञ्चपञ्चाशदेताः ग्राह्यास्तु पूजने । शेषास्तु यास्त्रिपञ्चाशन्मुद्रास्ताः समयेषु च । द्रव्यानयनसंकेतनटनादिषु ताः स्मृताः ॥ देवानां चिन्तने योगे ध्याने जप्ये विसर्ज्जने । आद्यास्तु पञ्चपञ्चाशन्मुद्रा भैरव ! कीर्त्तिताः ॥ मुद्रां विना तु यज्जप्यं प्राणायामः सुरार्च्चनम् । योगो ध्यानासने चापि निष्फलानि च भैरव ! ॥ प्रत्येकं लक्षणं तेषां शृणुतं तनयौ युवाम् ॥ दक्षिणामध्यमाग्रेण सव्यहस्तस्य तर्ज्जनीम् । योजयेत् सव्यमध्यान्तु तर्ज्जन्या दक्षिणेन वै ॥ तथा दक्षानामिकया वामहस्तकनिष्ठिकाम् । अनामिकान्तु वामस्य दक्षिणस्य कनिष्ठया ॥ योजयेद्भक्तिमान् सम्यक् दक्षिणावर्त्तनेन तु । धेनुमुद्रा समाख्याता सर्व्वदेवस्य तुष्टिदा ॥ १ ॥ संयोज्य द्वौ तलौ सर्व्वाण्यङ्गुष्ठाग्राणि हस्तयोः । संयोज्य पार्श्वतोऽङ्गुष्ठौ संपुटः प्रोच्यते सुरैः ॥ सर्व्वेषामथ देवानां संपुटः शस्यते सदा । ध्यानसंपुटयोगादौ सम्पुटः शस्यते सदा ॥ २ ॥ निकुब्जयुगलं पाण्योः संयोज्यार्द्धेन एव च । मध्यशून्यः पुटाकारः प्राञ्जलि परिकीर्त्तितः ॥ ३ ॥ अङ्गुष्ठमन्तरं कृत्वा पाण्योर्म्मुष्टिं विधाय च । संयोज्य विल्ववत्ते तु विल्वमुद्रा प्रकीर्त्तिता ॥ ४ ॥ मणिबन्धादाकरभं संयोज्य करयोर्द्बयोः । अङ्गुष्ठे चापि संयोज्य तथैव च कनिष्ठिके ॥ तिस्रस्तिस्रो द्वयोः पाण्योरङ्गुलीर्व्विरलास्ततः । पद्ममुद्रा समाख्याता चतुर्वर्गप्रदा नृणाम् ॥ ५ ॥ अङ्गुष्ठाग्रेण तर्ज्जन्याः संयोज्याथोर्द्ध्वरेखया । अन्याङ्गुलीस्तथानम्य नाराचः स्यात् प्रसा- र्य्यते ॥ मम चेव शिवायाश्च प्रीतिदेयं प्रियङ्करी । नाराचमुद्रा सततं प्रीत्यै वेताल



Correction: