संस्कृत-शब्दकोशः

मुधा मुनिखर्जूरिका

मुनि

वाचस्पत्यम्

मुनि ||‍ पु० मन—इन् पृषो० उत्वम् । “दुःखेष्वनुद्विग्नमनाः सुणेषु विगतस्पृहः । वीतरागभयक्रोधः स्थिरधीर्मुनिरुच्यते” गीतोक्तलक्षणे स्थिरचित्ते वीतरागादौ जने । ते च मन्वत्रिविष्णुहारोतादय । २ सप्तसंख्यायाञ्च । ३ वङ्ग- सेनतरौ ४ जिने मेदि० । ५ पियालवृक्षे ६ पराशरवृक्षे हेमच० ७ दमनकद्धक्षे राजनि० । “मननान्मुनिरुच्यते” इत्युक्ते ८ मननयुते त्रि० ।


शब्दकल्पद्रुमः

मुनिः || पुं, मनुते जानाति यः । (इति मन् + “मनेरुश्च ।” उणा० ४ । १२२ । इति इन् + अत उच्च ।)
मौनव्रती । इत्यन्ये । इति भरतः ॥ तत्पर्य्यायः । वाचंयमः २ । इत्यमरः । २ । ७ । ४२ । मौनी ३ व्रती ४ ऋषिः ५ शापास्त्रः ६ सत्यवाक् ७ । इति जटाधरः ॥ (यथा, नैषधे । १ । १३३ । “फलेन मूलेन च वारिभूरुहां मुनेरिवेत्थं मम यस्य वृत्तयः ॥”)
लस्य लक्षणं यथा, —
“दुःखेष्वनुद्बिग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥” इति श्रीभगवद्गीता ॥ * ॥
तस्य धर्म्मो यथा, — ब्रह्मोवाच । “मुनिभिश्चरिता धर्म्मा उक्ता व्यास ! मया तव । यैर्विष्णुस्तुष्यते देवः सुखादिपरिभाविकः ॥ तर्पणेन च होमेन सन्ध्यया बन्दनेन च । प्राप्यते भगवान् विष्णुर्व्रर्म्मकामार्थमीक्षदः ॥ धर्म्मो विष्णुर्ब्रतो विष्णुः पूजा विष्णुस्तु तर्पणम् । होमः सन्ध्या तथा ध्यानं धारणा सकलं हरिः ॥” इति गारुडे २२६ अध्यायः ॥ * ॥
तस्याश्रमे वर्णनीयानि यथा । अतिथिपूजा १ हरिणविश्वासः २ हिंस्रजन्तुशान्तता ३ यज्ञ- धूमः ४ मुनिसुतः ५ द्रुमसेकः ६ वल्कलः ७ वृक्षश्च ८ । इति कविकल्पलता ॥ * ॥
मुनिविशे- षाणां ब्रह्मणोऽङ्गविशेषादुत्पत्तिर्यथा, —
“पुलस्त्यो दक्षकर्णाच्च पुलही वामकर्णतः । दक्षनेत्रात्तथात्रिश्च वामनेत्रात् क्रतुः स्वयम् ॥ अरणिर्नासिकारन्ध्रात् अङ्गिराश्च मुखाद्रुचिः । भृगुश्च वामपार्श्वाच्च दक्षो दक्षिणपार्श्वतः ॥ छायायाः कर्द्दमो जातो नाभेः पञ्चशिखस्तथा । वक्षसश्चैव वोढुश्च कण्ठदेशाच्च नारदः ॥ मरीचिः स्कन्धदेशाच्च आपस्तम्बस्तथा गलात् । वशिष्ठो रसनादेशात् प्रचेता अधरोष्ठतः ॥ हंसश्च वामकुक्षेश्च दक्षकुक्षेर्यतिः स्वयम् । सृष्टिं विधातुञ्च विधिश्चकाराज्ञां सुतानपि ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे ८ अध्यायः ॥ * ॥
गयासुरशरीरे यज्ञार्थं ब्रह्मणो मानसात् सृष्टा मुनयो यथा, —
“ब्रह्मा सम्भृतसम्भारो मानसानृत्विजोऽसृजत् । अग्निशर्म्माणममृतं शौनकं जाजलिं मृदुम् ॥ कुमुखिं वेदकौण्डिन्यं हारीतं कश्यपं कृपम् । गर्गं कौशिकवाशिष्ठौ मुनिं भार्गवमव्ययम् ॥ वृद्धं पाराशरं कण्वं माण्डव्यं श्रुतिकेवलम् । श्वेतं सुतालं दमनं सुहोत्रं कक्षमेव च ॥ नौगाक्षिञ्च महाबाहुं जेगींषव्यं तथैव च । दधिपञ्चमुखं विप्र ! ऋषभं कर्कमेव च ॥ कामायनं गोभिलञ्च मुनिमुग्रं महाव्रतम् । जटामालिनमव्यग्रं चाटुहासञ्च दारुणम् ॥ आत्रेयञ्चाप्यङ्गिरसमौपमन्युं महाव्रतम् ॥ गोकर्णञ्च गुहावासं शिखण्डिनमुमाव्रतम् ॥ सुपालकं गौतमञ्च तथा वेदशिरो व्रतम् । एतानन्यांश्च विप्रेन्द्रान् ब्रह्मा लोकपितामहः । परिकल्प्याकरोद्यागं गयासुरशरीरके ॥” इति वायुपुराणे गयामाहात्म्यम् ॥ * ॥
मुनिविशेषनाम्नां व्युत्पत्तिर्यथा, —
“कतिकल्पान्तरेऽतीते स्रष्टुः सृष्टिविधौ पुनः । मरीचिमिश्रैर्म्मुनिभिः सार्द्धं कण्ठाद्बभूव सः ॥ विधेर्नरदनाम्नश्च कण्ठदेशाद्बभूव सः । नारदश्चेति विख्यातो मुनीन्द्रस्तेन हेतुना ॥ यः पुत्त्रश्चेतसो धातुर्ब्बभूव मुनिपुङ्गवः । तेन प्रचेता इति तन्नाम चक्रे पितामहः ॥ बभूव धातुर्यः पुत्त्रः सहसा दक्षपार्श्वतः । सर्व्वकर्म्मणि दक्षश्च तेन दक्षः प्रकीर्त्तितः ॥ वेदेषु कर्द्दमः शब्दश्छायायां वर्त्तते स्फुटः । बभूव कर्द्दमाद्बालः कर्द्दमस्तेन कीर्त्तितः ॥ तेजोभेदे मरीचिश्च वेदेषु वर्त्तते स्फुटम् । जातः सद्योऽतितेजस्वी मरीचिस्तेन कीर्त्तितः ॥ क्रतुसंघश्च बालेन कृतो जन्मान्तरेऽधुना । ब्रह्मपुत्त्रोऽपि तन्नाम्ना क्रतुरित्यभिधीयते ॥ प्रधानाङ्गं मुखं धातुस्ततो जातश्च बालकः । इरस्तेजस्विवचनोऽङ्गिरास्तेन प्रकीर्त्तितः ॥ अतितेजस्विनि भृगुर्व्वर्त्तते नाम्नि शौनक ! । जातः सद्योऽतितेजस्वी भृगुस्तेन प्रकीर्त्तितः ॥ वशीभूतश्च शिष्टश्च जातः सद्यो हि बालकः । अतिप्रियश्च धातुश्च वशिष्ठस्तेन कीर्त्तितः ॥ बालोऽप्यरुणवर्णंश्च जातः सद्यो हि तेजसा । प्रज्वलन् पूर्ब्बतपसा चारुणस्तेन कीर्त्तितः ॥ हंस आत्मा वशो यस्य योगेन योगिनो ध्रुवम् । बालः परमयोगीन्द्रस्तेन हंसः प्रकीर्त्तितः ॥ सन्ततं यस्य यत्नञ्च तपःसु बालकस्य च । प्रकीर्त्तितो यतिस्तेन संयतः सर्व्वकर्म्मसु ॥ पुलस्तपःसु वेदेषु वर्त्तते ह स्फुटेऽपि च । स्फुटं तपःस्वरूपश्च पुलहस्तेन कीर्त्तितः ॥ पुलस्तपःसमूहश्च यस्यास्ति पूर्ब्बजन्मनाम् । तपःसंघः समूहश्च पुलस्त्यस्तेन बालकः ॥ त्रिगुणायां प्रकृत्यां त्रिर्विष्णावश्च प्रवर्त्तते । तयोर्भक्तिः समा यस्य तेन बालोऽत्रिरुच्यते ॥ जटाश्चाग्निशिखारूपाः पञ्च सन्ति च मस्तके । तपस्तेजोभवा यस्य स च पञ्चशिखः स्मृतः ॥ अपान्तरतमे देशे तपस्तेपेऽन्यजन्मनि । अपान्तरतमा नाम शिशोस्तेन प्रकीर्त्तितम् ॥ स्वयन्तपः समाप्नोति वाहयेत् प्रापयेत् परान् । ऊढुः समर्थस्तपसि वोढुस्तेन प्रकीर्त्तितः ॥ तपसस्तेजसा बालो दीप्तिमान् सूनृतो मुने ! । तपःसु रोचते चित्तं रुचिस्तेन प्रकीर्त्तितः ॥” इति ब्रह्मवैवत्ते ब्रह्मखण्डे २२ अध्यायः ॥ वङ्गसेनतरुः । जिनः । इति मेदिनी । ने, १५ ॥ प्रियालवृक्षः । पलाशवृक्षः । इति हेमचन्द्रः । १ । ७६ ॥ दमनकवृक्षः । इति राजनिर्घण्टः ॥ (स्त्री, दक्षकन्या । सा च कश्यपपत्नीनामन्य- तमा । यथा, महाभारते । १ । ६५ । ११-१२ । “मरीचेः कश्यपः पुत्त्रः कश्यपात्तु इमाः प्रजाः । प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ॥ अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा । क्रोघा प्राधा च विश्वा च विनता कपिला मुनिः ॥” अष्टवस्वन्तर्गतस्य आपनामकस्य वसोः पुत्त्रे, पुं । यथा, हरिवंशे भविष्यपर्व्वणि । ३ । ४० । “आपस्य पुत्त्रो वैतण्ड्यः श्रमः श्रान्तो मुनि- स्तथा ।” क्रौञ्चद्वीपस्य देशविशेषः । यथा, मत्स्यपुराणे । १२१ । ८३-८५ । “क्रौञ्चस्य कुशलो देशो वामनस्य मनोऽनुगः । मनोऽनुगात् परे चोष्णस्तृतीयोऽपि स उच्यते ॥ उष्णात् परे पावनकः पावनादन्धकारकः । अन्धकारकदेशात्तु मुनिदेशस्तथापरः ॥” (द्युतिमतः पुत्त्राणामन्यतमः । यथा, मार्कण्डेये । ५३ । २२ । “तथा द्युतिमतः सप्तपुत्त्रास्तांश्च निबोध मे । मुनिश्च दुन्दुभिश्चैव सप्तमः परिकीर्त्तितः ॥” कुरुपुत्त्रभेदः । यथा, महाभारते । १ । ९४ । ४९ ॥ “अविक्षितमभिष्वस्तं तथा चैत्ररथं मुनिम् ॥”)



Correction: