वाचस्पत्यम्
मुनीन्द्र || पु० मुनिः इन्द्र इव । १ वृद्धे अमरः । ७ त० । २ ऋषिश्रेष्ठे ।
शब्दकल्पद्रुमः
मुनीन्द्रः || पुं, (मुनीनां मननशीलानां योगिनामिन्द्रः श्रेष्ठः ।)
बुद्धः । इत्यमरः । १ । १ । १४ ॥ ऋषि- श्रेष्ठश्च ॥ (यथा, कथासरित्सागरे । ७२ । ३०९ । “पतन्तमेव तस्माच्च पाणिभ्यां स तमग्रहीत् । मुनीन्द्रः प्रकटीभूय समाश्वास्य जगाद च ॥” दानवभेदः । यथा, हरिवंशे । २५५ । ५ । “वृषपर्व्वा विरूपाक्षो मुनीन्द्रश्चन्द्रलोचनः ।”)