संस्कृत-शब्दकोशः

मुमुक्ष मुमुचान

मुमुक्षु

शब्दकल्पद्रुमः

मुमुक्षुः || पुं, (मोक्तुमिच्छतीति । मुच् + सन् + उः ।)
मुक्तिमिच्छः ॥ (यथा, श्रीमद्भगवद्गीतायाम् । ४ । १५ । “एवं ज्ञात्वा कृतं कर्म्म पूर्ब्बैरपि मुमुक्षुभिः । कुरु कर्म्मैव तस्मात्त्वं पूर्ब्बैः पूर्ब्बतरं कृतम् ॥”)
तत्पर्य्यायः । श्रमणः २ यतिः ३ वाचंयमः ४ व्रती ५ साधुः ६ अनगारः ७ ऋषि, ८ मुनिः ९ निर्ग्रन्थः १० भिक्षुः ११ । इति हेमचन्द्रः १ । ७५ ॥ अथ मुमुक्षुकृत्यम् । मनुः । “इह चामुत्र वा काम्यं प्रवृत्तं कर्म्म कीर्त्त्यते । निष्कामं ज्ञानपूर्ब्बन्तु निवृत्तमुपदिश्यते ॥ प्रवृत्तं कर्म्म संसेव्य देवानामेति सार्ष्टिताम् । निवृत्तं मेवमानस्तु भूतान्यत्येति पञ्च वै ॥” कामनापूर्ब्बकं कर्म्म शरीरप्रवृत्तिहेतुत्वात् प्रवृत्त तदेव कर्म्म कामनारहितं पुनर्ब्रह्म- ज्ञानाभ्यासपूर्ब्बकं संसारनिवृत्तिहेतुत्वात् निवृत्त- मुच्यते । सार्ष्टितां समानगतितां ऋषेर्गत्यर्थत्वात् पञ्चभूतान्यत्येति अतिक्रामति मोक्षं प्राप्नोती- त्यर्थः । विष्णुपुराणे च । ६ । ७ । ३८ । विशिष्टफलदा काम्या निष्कामाणाञ्च मुक्तिदा । भगवद्गीतापि । “युक्तः कर्म्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठि- कीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥” युक्तः ईश्वराय कर्म्माणि न फलाय इत्येवं समाहितः । फलं त्यक्त्वा कर्म्माणि कुर्व्वन्निति शेषः । शान्तिं मोक्षाख्यां नैष्ठिकीं निष्ठायां भवाम् । सत्त्वशुद्धिः ज्ञानप्राप्तिः सर्व्वकर्म्म- संन्यासः ज्ञाननिष्ठाक्रमेणेति वाक्यशेषः । अयुक्तस्तद्वहिर्म्मुखः । कामकारेण कामप्रेरित- तया कामतः प्रवृत्तेरिति यावत् । फले सक्तः सन् फलायेदं कर्म्म करोमीत्येवं फले सक्तो नितरां बन्धं प्राप्नोति । तथा च अर्ज्जुनं प्रति भगवद्बाक्यम् । “मयि सर्व्वाणि कर्म्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥” संन्यस्य निःक्षिप्य समर्प्य इति यावत् । अध्यात्म- चेतसा विवेकबुद्ध्या ईश्वराय भृत्यवत् करोमि इत्यनया बुद्ध्या निराशीस्त्यक्तकामसङ्कल्पः । अतएव निर्म्ममः ममतारहितः । विगतज्वरः विगतसन्तापः । व्यक्तमाह स एव । “यत् करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय ! तत् कुरुष्व मदर्पणम् ॥” विष्णुपुराणम् । “कर्म्माण्यसङ्कल्पिततत्फलानि संन्यस्य विष्णौ परमात्मरूपे । अवाप्य तां कर्म्ममहीमनन्ते तस्मिन् लयं ये त्वमलाः प्रयान्ति ॥” कर्म्ममहीं भारतवर्षरूपाम् । एकादशस्कन्धे । “वेदोक्तमेव कुर्व्वाणो निःसङ्गोऽर्पितुमीश्वरे । नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः ॥” वेदोक्तमेव कुर्व्वाणो न तु निषिद्धम् । ननु कर्म्मणि- क्रियमाणे तस्मिन्नासक्तितस्तत्फलं स्यादेव न तु नैष्कर्म्म्यरूपा फलसिद्धिरत एवाह निःसङ्गो- ऽनभिनिवेशवान् ईश्वरेऽर्पितुं न तु फलोद्देशेन । अथ फलस्य श्रुतत्वात् कर्म्मणि कृते फलं भवत्येव इत्याह रोचनार्थेति कर्म्मणि रुच्युत्पादनार्था । अतएव तत्रैव । “फलश्रुतिरियं नॄणां न श्रेयो रोचनं परम् । श्रेयोविवक्षया प्रोक्ता यथा भैषज्यरोचनम् ॥ उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च । आसक्तमनसो मर्त्त्या आत्मनोऽनर्थहेतुषु ॥ न तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि । कथं युञ्ज्यात् पुनस्तेषु तांस्तमो विशतो बुधः ॥ एवं व्यवसितं केचिदविज्ञाय कुबुद्ध्वयः । फलश्रुतिं कुसुमितां न वेदज्ञा वदन्ति हि ॥” इयं फलश्रुतिर्न श्रेयःपरमपुरुषार्थपरा न भवति किन्तु बहिर्मुखानां नॄणां मोक्षविवक्षया अवा- न्तरकर्म्मफलैः कर्म्मसु रुच्युत्पादनमात्रं यथा, भैषज्ये औषधे रुच्युत्पादनम् । यथा, —
“पिब निम्बं प्रदास्यामि खलु ते खण्डलड्डुकान् । पित्रैवमुक्तः पिबति न फलं तावदेव तु ॥” तत्रागदपानस्य न खलु खण्डादिलाभ एव प्रयोजनं किन्त्वारोग्यम् । तथा वेदोऽप्यवान्तर- फलैः प्रलोभयन् मोक्षायैव कर्म्माणि विधत्ते । ननु कर्म्मकाण्डे मोक्षस्य नामापि न श्रूयते कथ- मेवं व्याख्यायते यथाश्रुतस्यैव घटनात् इत्याह उत्पत्त्येति द्वाभ्याम् । उत्पत्त्या स्वभावत एव कामेषु पश्वादिषु प्राणेषु आयुरिन्द्रियबल- वीर्य्यादिषु स्वजनेषु पुत्त्रदारादिषु अनर्थहेतुषु परिपाकतो दुःखहेतुषु अतस्तान् स्वार्थं परम- सुखमविदुषः अजानतः अतो न तान् प्रह्वी- भूतान् बुधो वेदो यद्बोधयति तदेव श्रेयः इति विश्वसितान् इत्यर्थः । तान् एवम्भूतान् वृजिना- ध्वनि कामवर्त्मनि देवादियोनौ भ्राम्यतः ततः पुनस्तमोभूतवृक्षादियोनिं विशत इति । पशु- काम इति च सुखपुत्त्रादिकाम इति च कथं पुनस्तेष्वेव कामेषु अयं बुधो वेदो युञ्ज्यात् प्रव- र्त्तयेत् । तथा सत्यनाप्तः स्यात् इति भावः । कथं तर्हि कर्म्ममीमांसकाः फलपरतां वदन्ति तत्राह । एवमिति व्यवसितं वेदस्याभिप्रायं अविज्ञाय कुसुमितामवान्तरफलरोचनया रम- णीयां परमफलश्रुतिं वदन्ति कुतस्ते कुबुद्धय- स्तत्राह हि यस्मात् वेदज्ञा व्यासादयः न तथा वदन्ति इति । अतएव निष्कामकर्म्मण आत्म- ज्ञानार्थतोक्ता यथा, —
“अयमेव क्रियायोगो ज्ञानयोगस्य साधकः । कर्म्मयोगं विना ज्ञानं कस्यचिन्नेह दृश्यते ॥” सोऽपि दुरितक्षयद्बारा न साक्षात् । तथा च । “ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्म्मणः ॥” तथा श्रुतिः । “तमेवं वेदार्थवचनेन ब्राह्मणा विविदिषन्ति ब्रह्मचर्य्येण तपसा श्रद्धया दानेनयज्ञेनानशनेन चेति ।” तं आत्मतत्त्वसाक्षात्कारं अतएव यज्ञादीनां ज्ञानशेषताञ्चावधार्य्य निष्कामेषु कर्म्मसु प्रव- र्त्तते । पण्डितेनापि मूर्खः काम्ये कर्म्मणि न प्रवर्त्तयितव्य इत्याह षष्ठस्कन्धे । “स्वयं निःश्रेयसं विद्वान्नवक्त्यज्ञाय कर्म्म हि । न राति रोगिणेऽपथ्यं वाञ्छतेऽपि भिषक्- तमः ॥” राति ददाति इति समयप्रदीपे श्रीदत्तः ॥ “दासीदासमलङ्कारमन्नं षड्रससम्भवम् । पुरुषोत्तमतुष्ट्यर्थं प्रदेयं सार्व्वकालिकम् ॥ यद्यदिष्टतमं लोके यच्चाप्यस्ति गृहे शुचि । तत्तद्धि देयं प्रीत्यर्थं देवदेवस्य चक्रिणः ॥” इदं दानं ब्राह्यणसम्प्रदानकमेव विष्णुप्रीतिमु- द्दिश्य एवं सर्व्वत्र दाने । विष्णुप्रीतेः सामान्यतः श्रुतत्वात् । अथ विष्णुप्रीतौ देवताधिकरणन्याय- विरोध इति चेन्न स्वर्गवदधिकारिविशेषणत्वेन तत्सत्त्वप्रसाधनात् इत्याहुः । ब्राह्मणसम्प्रदान- कत्वे किं मानमिति चेत् वामनपुराणे तत्तन्- मासभेदेन तत्तद्दानमभिधाय । “विष्णुप्रीत्यर्थमेतानि देयानि ब्राह्मणेष्वथ । देयानि विप्रमुख्येभ्यो मधुसूदनतुष्टये ॥” इत्यभिधाय दासीदासमित्यादिवचनद्बयाभि- धानात् । तथा च विष्णुधर्म्मोत्तराग्निपुराणयोः । “यत्र यत्र भवेत् प्रीतिर्विषयेभ्यो महामुने ! । तत्तदच्युतमुद्दिश्य विप्रेभ्यः प्रतिपादयेत् ॥” विष्णुधर्म्मोत्तरतृतीयकाण्डे तु विष्णुसंप्रदानक- मेव दानं यथा, — ‘विष्णोः शङ्खप्रदानेन वारुणं लोकमाप्नुयात् ।’ इत्यादिना । “क्षीरपल्लवसंयुक्तान् कलसान् सुविभूषितान् । दत्त्वा वै देवदेवाय वाजिमेधफलं लभेत् ॥” इत्यन्तेन तत्तत् फलं तत्तद्दानमभिधायोक्तम् । “अकामः सात्विको लोको यत्किञ्चिद्विनिवे- दयेत् । तेनैव स्थानमाप्नोति यत्र गत्वा न शोचति ॥ धर्म्मबाणिजिका मूढाः फलकामा नराधमाः । अर्च्चयन्ति जगन्नाथं ते कामानाप्नुवन्त्युत ॥ अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ॥” तथा । “पद्भ्यां प्रतीच्छते देवः सकामेन निवेदितम् । मूर्द्ध्ना प्रतीच्छते दत्तमकामेन द्विजोत्तमाः ॥” उक्तवामनपुराणवचने सार्व्वकालिकमित्यनेन मलमासादावपि विष्णुप्रीत्यर्थं देयमिति । इति मलमासतत्त्वम् ॥ (तत्र मुमुक्षतामुदयनानि व्याख्यास्यामः । तत्र लोकदोषदर्शिनो मुमुक्षोरादित एवाचार्य्या- भिगमनं तस्योपदेशानुष्ठानम् । अग्नेरेवोप- चर्य्या धर्म्मशास्त्रानुगमनं तदर्थावबोधस्तेनाव- ष्टम्भस्तत्र यथोक्ताः क्रियाः सतामुपासनमसतां परिवर्ज्जनं न सङ्गतिर्दुर्ज्जनेन सत्यं सर्व्वभूतहित- मपरुषमनतिकाले परीक्ष्य वचनं सर्व्वप्राणिषु आत्मनीवावेक्षा सर्व्वासामस्मरणमसङ्कल्पन- मप्रार्थना अनभिभाषणञ्च स्त्रीणां सर्व्वपरिग्रह- त्यागः कौपीनं प्रच्छादनार्थं धातुरागनिवसनं कन्थासीवनहेतोः सूची पिप्पलकं शौचाधान- हेतोः जलकुण्डिका दण्डधारणं भक्ष्याचर्य्यार्थ- पात्रं प्राणधारणार्थमेककालमग्राम्यो यथो- पपन्न एवाभ्यवहारः । श्रमापनयनार्थं शीर्ण- शुष्कपर्णतृणास्तरणोपधानं ध्यानहेतोः काय- निबन्धनं वनेष्वनिकेतवासः तन्द्रानिद्रालस्यादि- कर्म्मवर्ज्जनं इन्द्रियार्थेष्वनुरागोपतापनिग्रहः सुप्तस्थितगतप्रेक्षिताहारविहारप्रत्यङ्गचेष्टादि- केष्वारम्भेषु स्मृतिपूर्ब्बिका प्रवृत्तिः सत्कार- स्तुतिगर्हावमानक्षमत्वं क्षुत्पिपासायासश्रम- शीतोष्णवातवर्षासुखदुःखसंस्पर्शसहत्वं शोक- दैन्यद्वेषमदमानलोभरागेर्ष्याभयक्रोधादिभिरस- ञ्चलनं अहङ्कारादिषूपसर्गसंज्ञा लोकपुरुषयोः स्वर्गादिसामान्यावेक्षणं कार्य्यकालात्ययभयं योगारम्भे सततमनिर्व्वेदः सत्त्वोत्साहोऽपवर्गाय धीधृतिस्मृतिबलाधानं नियमनमिन्द्रियाणां चेतसि चेतस आत्मन्यात्मनश्च धातुभेदेन शरी- रावयवसंख्यानं अभीक्ष्णं सर्व्वं कारणवद्दुःख- मस्वमनित्यमित्यभ्युपगमः । सर्व्वप्रवृत्तिषु दुःख- संज्ञा सर्व्वसंन्यासे सुखमित्यभिनिवेशः एष- मार्गोऽपवर्गाय अतोऽन्यथा बध्यते इत्युदयनानि व्याख्यातानि ॥ इति चरके शारीरस्थाने पञ्चमे- ऽध्याये ॥)



Correction: