वाचस्पत्यम्
मुरला || स्त्री मुरं लाति ला—क । १ नर्मदायाम् । “मुरला- मारुतोद्बूतम्” रघुः । २ वंशीनाम्नि बाद्ये गौरा० ङीष् ।
शब्दकल्पद्रुमः
मुरला || स्त्री (मुरं वेष्टनं लाति । ला + कः ।)
नर्म्मदानदी । इति त्रिकाण्डशेषः ॥ (यथा, उत्तररामचरिते । ३ । १ ॥ ततः प्रदिशति नदीद्वयं तमसा मुरला च । तमसा । सखि मुरले ! किमसि सन्म्रान्तेव । केरलदेशस्था काचिन्नदी । यथा च । रघुवंशे । ४ । ५५ । “मुरलामारुतोद्धूतमगमत् कैतकं रजः । तद्योधवारवाणानामयत्नपटवासताम् ॥” “मुरला नाम केरलदेशेषु काचिन्नदी ।” इति तट्टीकाकृन् मल्लिनाथः ॥)