संस्कृत-शब्दकोशः

मुरला मुरलीधर

मुरली

शब्दकल्पद्रुमः

मुरली || स्त्री (मुरं अङ्गुलिवेष्टनं लाति प्राप्नोतीति ला + कः + स्त्रियां ङीष् ।)
स्वनामख्यात- शुषिरवाद्यम् । तत्पर्य्यायः । वंशी २ वंशिका ३ वंशनालिका ४ सानेयिका ५ सानेयी ६ सानिका ७ मुरलासिका ८ । शेषचतुष्टयं सानायि । इति शब्दरत्नावली ॥ (यथा, राधा- तन्त्रे । २३ । “वादयन् मुरलीं कृष्णः शृङ्गं वेणुं तथापरम् । कात्यायनीं नमस्कृत्य हरिः पद्मदलेक्षणः ॥”)



Correction: