शब्दकल्पद्रुमः
मुरा || स्त्री (मुरति सौरभेण वेष्टयति । मुर + इगुपधत्वात् कः टाप् च ।)
स्वनामख्यातगन्ध- द्रव्यम् । (यथा, गरुडपुराणे । १९० । “तथा हिक्वां हरेत् पीता सौवर्च्चलसुतामुरा ।” तत्पर्य्यायः । तालपर्णी २ दैत्या ३ गन्धकुटी ४ गन्धिनी ५ । इत्यमरः । २ । ४ । १२३ ॥ (तथास्याः पर्य्यायान्तरं गुणाश्च । “मुरा गन्धकटी दैत्या सुरभिः शालपणिका । मुरा तिक्ता हिमा स्वाद्वी लघ्वी पित्तानिला- पहा । ज्वरासृग्भूतरक्षोघ्नी कुष्ठकासविनाशिनी ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ तस्या लक्षणं यथा । मुरा पीता वरा प्रोक्ता । इति वैद्यकचक्रपाणिसंग्रहे वातव्याध्यधिकारे ॥)
अस्या अनुलेपनगुणाः । अलक्ष्मीरक्षोज्वर- नाशित्वम् । इति राजवल्लभः ॥ राजनिर्घण्टोक्त- गुणपर्य्यायौ पुराशब्दे द्रष्टव्यौ ॥