संस्कृत-शब्दकोशः

मुरा मुर्

मुरारि

शब्दकल्पद्रुमः

मुरारिः || पुं, (पुरस्यारिः ।)
श्रीकृष्णः । अस्य व्युत्पत्तिर्यथा, —
“मुरः क्लेशे च सन्तापे कर्म्मभोगे च कर्म्मिणाम् । दैत्यभेदेऽप्यरिस्तेषां मुरारिस्तेन कीर्त्तितः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥ अस्य स्वरूपं यथा, — श्रीनारद उवाच । “कोऽसौ मुरारिर्देवर्षे ! देवो यक्षो नु किं नरः । दैत्यो वा राक्षसो वापि पार्थिवो वा तदुच्यताम् ॥” पुलस्त्य उवाव । “योऽसौ रजःसत्त्वमायागुणवांश्च तमोमयः । निर्गणः सर्व्वगो व्यापी मुरारिर्म्मधुसूदनः ॥” श्रीनारद उवाच । “योऽसौ मुर इति ख्यातः कस्य पुत्त्रश्च गीयते । कथञ्च निहतः संख्ये विष्णुना तद्वदस्व मे ॥” पुलस्त्य उवाच । “श्रूयतां कथयिष्यामि मुरासुरनिवर्हणम् । विचित्रमिदमाख्यानं पुण्यं पापप्रणाशनम् ॥ कश्यपस्यौरसः पुत्त्रो मुरो नाम महाबलः । स ददर्श रणे शम्भुं दितिपुत्त्रोऽसुरोत्तमः ॥ ततः स मरणाद् भीतस्तप्त्वा वर्षगणान् बहून् । आराधयामास विभुं ब्रह्माणमपराजितम् ॥ ततोऽस्य तुष्टो वरदः प्राह वत्स ! वरं वृणु । स च वव्रे तदा दैत्यो वरमेनं पितामहात् ॥ यं यं करतलेनाहं स्पृशेयं समरे विभो ! । स स मद्धस्तसंस्पृष्टस्त्वमरोऽपि म्रियत्वज ! ॥ बाढमुक्त्वा स भगवान् ब्रह्मा लोकपितामहः । ततोऽभ्यगान्महातेजा मुरः सुरगिरिं बली । जगाम धर्म्मराजानं विजेतुं दण्डपाणिनम् ॥” मुर उवाच । “यम ! प्रजासंयमनान्निवृत्तिं कर्त्तुमर्हसि । नो चेत्तवाद्य छित्त्वाहं मूर्द्ध्वानं पातये भुवि ॥ तमाह धर्म्मराड्वाक्यं यदि मां संयमेद्भवान् । गोपितासि पुरा सत्यं करिष्ये वचनं तव ॥ मुरस्तमाह भवतः कः संयन्ता वदस्व माम् । अहं तञ्च पराजित्य वारयामि न संशयः ॥ यमस्तं प्राह मां विष्णुर्देवश्चक्रगदाधरः । श्वेतद्बीपनिवासी यः स मां संयमतेऽव्ययः ॥ इत्येव मुक्तो वत्तनं दुग्धाब्धिमगमन्मुरः ॥ तमागतं प्राह मुने ! मधुघ्नः प्राप्तोऽसि केनासुर ! कारणेन । स प्राह युद्धं सह वै त्वयाद्य तं प्राह भूयः सुरशत्रुहन्ता ॥ यदीह मां योद्धुमुपागतोऽसि तत् कम्पते ते हृदयं किमर्थम् । ज्वरातुरस्येव मुहुर्मुहुर्व्वै तन्नैव योत्स्ये सह कातरेण ॥ इत्येवमुक्तो मधुसूदनेन मुरस्तदा स्वे हृदये स्वहस्तम् । कथं नु कम्पेति मुहुस्तदोक्त्वा निपातयामास विपन्नबुद्धिः ॥ हरिश्च चक्रं मृदुलाघवेन मुमोच तत्तस्य शिरस्तु शत्रोः । चिच्छेद देवास्तु गतव्यथाभवन् देवं प्रशंसन्ति च पद्मनाभम् । इतः प्रसिद्धं समुपाजगाम मुरारिरित्येव हरिर्महात्मा ॥” इति वामने ५७ । ५८ अध्यायौ ॥ * ॥
अनर्घराघवग्रन्थकर्त्ता । यथा । ‘अस्ति मौद्गल्य- गोत्रसमुद्भूतस्य महाकवेर्भट्टश्रीवर्द्धमानात्मजस्य तन्तुमतीहृदयनन्दनस्य मुरारिनामधेयस्य कवेः कृतिरनर्घराघवं नाम नाटकं तत्प्रयुञ्जानाः सामाजिकानुपास्महे ।’ इति तत्कृतनाटक- गद्यम् ॥



Correction: