शब्दकल्पद्रुमः
मुष्कशून्यः || पुं, (मुष्केण शून्यः ।) वृषणरहितः । स तु राज्ञोऽन्तःपुररक्षकः । खोजा इति भाषा । तत्पर्य्यायः । अनुपस्थः २ स्त्रीस्वभावः ३ महल्लिकः ४ । इति शब्दमाला ॥