संस्कृत-शब्दकोशः

मुष्कशून्य मुष्टिक

मुष्टि

वाचस्पत्यम्

मुष्टि ||‍ पुंस्त्री० मुष—णिच् । १ बद्धपाणौ अमरः २ पलपरिमाणे पु० हेमच० ३ कुञ्यष्टभागे च । क्तिन् । ४ र्मोषणे स्त्री ।


शब्दकल्पद्रुमः

मुष्टिः || पुं, स्त्री, (मुष् + क्तिच् ।)
पलपरिमाणम् । चारि तोला इति भाषा । (वैद्यके आठतोला इति प्रसिद्धिः । “स्यात् कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा । शुक्तिभ्याञ्च पलं ज्ञेयं मुष्टिराम्रञ्चतुर्थिका ॥” इति वैद्यकशार्ङ्गधरे पूर्ब्बखण्डे प्रथमेऽध्याये ॥ ‘पलार्द्धं शुक्तिमिच्छन्ति तथाष्टमाषकास्त्विति ।’ पलं विल्वञ्च मुष्टिः स्यात् — ॥” इति गारुडे अष्टाधिकद्बिशततमेऽध्याये ।)
बद्धपाणिः । मुटा इति भाषा । तत्पर्य्यायः । सम्पिण्डिताङ्गुलिपाणिः २ मुस्तुः ३ मुचुटी ४ । इति हेमचन्द्रः । ३ । २६१ ॥ त्सरुः । इति मेदिनी । टे, २५ ॥ खड्गेर मुट् इति भाषा । (यथा, महाभारते । १ । १९ । १७ । “परिघैरायसैस्तीक्ष्णैः सन्निकर्षे च मुष्टिभिः । निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥”)
कुञ्च्यष्टभागः । छटाक इति भाषा । यथा, —
“अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलः ।” इति प्रायश्चित्ततत्त्वम् ॥ (मुष् + क्तिन् ।)
मोषणम् । इति मुषधात्वर्थ- दर्शनात् । प्रहारविशेषः । किल इति भाषा । यथा, मार्कण्डेयपुराणे । ९० । १५ — १६ । “चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः । तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥ स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः । देव्यास्तञ्चापि सा देवी तलेनोरस्यताडयत् ॥” पथि क्षुधार्त्तस्य तिलादीनां मुष्टिग्रहणे चौर्य्या- भावः । यथा, कौर्म्मे उपविभागे १५ अध्याये । “तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः । क्षुधार्त्तैर्नान्यथा विप्र ! विधिविद्भिरिति स्थितिः ॥” (मुष् स्तेये + अधिकरणे क्तिन् । शस्यगोपन- कालः । यथा, महाभारते । २ । ५ । ६५ । “कच्चिल्लवञ्च मुष्टिञ्च परराष्ट्रे परन्तप ! । अविहाय महाराज ! निहंसि समरे रिपून् ॥” “मुष्टिः शस्यानां गोपनकालः दुर्भिक्षमिति यावत् ॥” इति तट्टीकायां नीलकण्ठः ॥)



Correction: