वाचस्पत्यम्
मुष्टिक || पु० मुष्ट्या कायति कै—क । १ कंसराजमल्लभेदे । मुष्टि र्मोषणं प्रथोजनमस्य कन् । २ स्वर्णकारे हेमच० ।
शब्दकल्पद्रुमः
मुष्टिकः || पुं, (मुष्णाति परवीर्य्यमिति । मुष् + क्तिच् संज्ञायां कन् ।)
कंसराजमल्लविशेषः । इति श्रीमद्भागवतम् ॥ (यथा च हरिवंशे । ४१ । १६० । “नागं कुवलयापीडं चाणूरं मुष्टिकं तथा ।” मुष्टिः प्रयोजनमस्य । मुष्टि + कन् ।)
स्वर्ण- कारः ॥ इति हेमचन्द्रः । ३ । ५७२ ॥