वाचस्पत्यम्
मुस(ष)(श)लिन् || मुस(ष)(श)ल + अस्त्यर्थे इनि । बलदेवे अमरः ।
शब्दकल्पद्रुमः
मुसली || [न्] पुं, (मुसलं प्रहरणत्वेनास्यास्तीति । मुसल + इनिः ।) बलदेवः । इत्यमरः । १ । १ । २५ ॥