शब्दकल्पद्रुमः
मुस्ता || स्त्री (मुस्त + टाप् ।)
मुस्तकः । इत्य- मरः । २ । ४ । १५९ ॥ (तथास्याः पर्य्यायः । “मेघाख्यं मुस्तकं मुस्ता गाङ्गेयं भद्रमुस्तकम् ।” इति वैद्यकरत्नमालायाम् ॥ यथा सुशुते सूत्रस्थाने । ४४ । “दोषघ्ना ग्रहणीपाण्डुरोगार्शःकुष्ठनाशनाः । व्योषं त्रिजातकं मुस्ता विडङ्गामलके तथा ॥”)