संस्कृत-शब्दकोशः

मूर्ण मूर्ति

मूर्त

वाचस्पत्यम्

मूर्त्त ||‍ त्रि० मुर्च्छ—क्त । १ मूर्च्छान्विते अमरः । २ मूडे ३ कठिने च मेदि० । मूर्त्तिरस्त्यस्य अच् । ४ मूर्त्तिमति न्यायोक्तेषु अवच्छिन्नपरिमाणवत्सु । क्षितिजलपावकपवनमनःसु च ।


शब्दकल्पद्रुमः

मूर्त्तः || त्रि (मूर्च्छ + क्तः “राल्लोपः ।” ६ । ४ । २१ । इति छलोपः । “न ध्याख्यापॄमूर्च्छिमदाम् ।” ८ । २ । ५७ । इति निष्ठातकारस्य नत्वाभावः ।)
मूर्च्छितः । इत्यमरः । २ । ६ । ६१ ॥ कठिनः । मूर्त्तिमान् । इति मेदिनी । ते, ४५ ॥ न्यायमते पृथिवी जलं तेजः वायुः मनश्च । एषां गुणाः । रूपं रसः गन्धः स्पर्शः परत्वं अरपत्वं गुरुत्वम् । स्नेहः वेगश्च । मूर्त्तामूर्त्त- साधारणगुणाः । यथा, भाषापरिच्छेदे । संख्या परिमितिः पृथक्त्वं संयोगः विभागश्च । (यथा, मार्कण्डेये । २३ । ४७ । “यच्चामूर्त्तं यच्च मूर्त्तं समस्तं यद्बा भूतेष्वेकमेकञ्च किञ्चित् । यद्दिव्यस्ति क्ष्मातले खेऽन्यतो वा त्वत्सम्बन्ध त्वत्स्वरैर्व्यञ्जनैश्च ॥”)



Correction: