शब्दकल्पद्रुमः
मूर्द्धन्यः || त्रि (मूर्द्धन् + यत् ।)
मूर्द्धनि भवः । यथा । ऋत्रयं ट ठ ड ढ ण र षा मूर्द्धन्याः । इति मुग्धबोधव्याकरणम् ॥ (यथा च भागवते । १ । ७ । ५५ । “अर्जुनः सहसाज्ञाय हरेर्हार्द्दमथासिना । मणिं जहार मूर्द्ध्वन्यं द्विजस्य सहमूर्द्धजम् ॥”)