वाचस्पत्यम्
मूला || स्त्री मूलानि बाहुल्येन सन्त्यस्याः अच् । शतमूल्याम् राजनि०
शब्दकल्पद्रुमः
मूला || स्त्री (मूलानि बहुलानि सन्त्यस्याः । मूल + अर्श आदित्वादच् टाप् ।)
शतावरी । इति राजनिर्घण्टः ॥ मूलनक्षत्रम् । इति शब्द- रत्नावली ॥ (यथा, कालनाथविरचिते इन्द्र- जाले १ अध्यायः । “द्बितीयां षष्ठीमष्टम्यां कारयेत् शान्तिकर्म्म च । अश्विनोमृगमूलाश्च पुष्या पुनर्वसुस्तथा ॥”)