संस्कृत-शब्दकोशः

मूला मूलाह्व

मूलाधार

वाचस्पत्यम्

मूलाधार ||‍ पु० ६ त० । १ नाभिलिङ्गयोर्मध्ये तस्य हि शरी- रस्य मकलनाडीनां मूलस्थानत्वात्तथात्वम् “भूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके । मध्ये स्वयम्भूलि- ङ्गन्तु कोटिसूर्य्यसमप्रभम्” इत्युक्तलक्षणे त्रिकोणाकारे तन्त्रोक्ते २ सुषुम्णानाडीस्थे चक्रभेदे च ।


शब्दकल्पद्रुमः

मूलाधारः || पुं, (मूलानामाधारः । मूलं प्रधानं आधार इति वा ।)
गुह्यलिङ्गयोर्मध्ये अङ्गुलि- द्वयमितस्थानम् । स तु शरीरस्थसकलनाडीनां मूलस्थानम् । अत्र व श षं साक्षरयुक्तस्वर्ण- वर्णचतुर्द्दलपद्ममस्ति । तन्मध्ये इच्छाज्ञानक्रिया- स्वरूपत्रिकोणं वर्त्तते । तन्मध्ये कोटिसूर्य्यसम- प्रभस्वयम्मुलिङ्गमस्ति । अत्र पृथिवी वर्त्तते । तत्रैव मृणालसूत्रवत् सूक्ष्मसार्द्धत्रिबलयाकार- स्वयम्भुलिङ्गवेष्टितविद्युत्तुल्यप्रभकुलकुण्डलिनी वर्त्तते । यथा, —
“मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रिया- त्मके । मध्ये स्वयम्भुलिङ्गन्तु कोटिसूर्य्यसमप्रभम् ॥ तद्बाह्ये हेमवर्णाभं व स वर्णचतुर्द्दलम् ॥” इति तन्त्रसारः ॥ “अथाधारपद्मं सुषुम्नास्यलग्नं ध्वजाधो गुदोद्ध्वं चतुःशोणपत्रम् । अधोवक्त्रमुद्यत्सुवर्णाभवर्णै- र्वकारादिसान्तैर्युतं वेदवर्णेः ॥ अमुष्मिन् धरायाश्चतुष्कोणचक्रं समुद्भासि शूलाष्टकैरावृतं तत् । लसत्पीतवर्णं तडित्कोमलाङ्गं तदन्तः समास्ते धरायाः स्वबीजम् ॥ वज्राख्या वक्त्रदेशे विलसति सततं कर्णिका- मध्यसंस्थं कोणं तत्त्रैपुराख्यं तडिदिव विलसत् कोमलं कामरूपम् । कन्दर्पो नाम वायुर्विवसति सततं तस्य मध्ये समन्तात् जीवेशो बन्धुजीवप्रकरमभिहसन् कोटिसूर्य्य- प्रकाशः ॥ तन्मध्ये लिङ्गरूपी द्रुतकनककलाकोमलः पश्चिमास्यो ज्ञानध्यानप्रकाशः प्रथमकिशलयाकाररूपः स्वयम्भूः । भिद्यत्पूर्णेन्दुविम्बप्रकरकरचयस्निग्धसन्तान- हासी काशीवासी विलासी विलसति सरिदावर्त्तरूपः प्रकारः ॥ अस्योर्द्ध्वे विषतन्तुसोदरलसत् सूक्ष्मा जगन्मो- हिनी ब्रह्मद्वारमुखं मुखेन मधुरं साच्छादयन्ती स्वयम् । शङ्खावर्त्तनिभा नवीनचपलामाला विलासा- स्पदा सुप्ता सर्पसमा शिरोपरिलसत्सार्द्धत्रिवृत्ता- कृतिः ॥” इति श्रीतत्त्वचिन्तामणौ षट्चक्रभेदः ॥ * ॥
तत्रस्थतीर्थानि यथा, रुद्रयामले । “इडा मलस्थाननिवासिनी या सूर्य्यात्मिका या यमुनाप्रवाहिका । तथा सुषुम्ना मलदेशगामिनी सरस्वती रक्षति मज्जनात्मकम् ॥ मनोगतस्नानपरो मनुष्यो मन्त्रक्रियायोगविशिष्टतत्त्ववित् । महीस्थतीर्थे विमले जले मुदा मूलाम्बुजे स्नाति सुमुक्तिभाग्भवेत् ॥ सर्व्वाणि तीर्थे सुरतीर्थपावनी गङ्गा महासत्त्वविनिर्गता सती । करोति पापक्षयमेव मुक्तिं ददाति साक्षादमलार्थपुण्यदा ॥”



Correction: