संस्कृत-शब्दकोशः

मृगधूर्तक मृगनाभिजा

मृगनाभि

वाचस्पत्यम्

मृगनाभि ||‍ पु० मृगस्य नाभिः जन्महेतुर्यस्य । कस्तूर्य्याम् मृगमदे अमरः ।


शब्दकल्पद्रुमः

मृगनाभिः || पुं, (मृगस्य नाभिः । तदभ्यन्तरे जातत्वात् तथात्वम् ।)
कस्तूरी । तत्पर्य्यायः । “मृगनाभिर्मृगमदः कथितस्तु सहस्रभित् । कस्तूरिका च कस्तूरी बोधमुख्या च सा स्मृता ॥” सा त्रिविधा यथा, — ‘कामरूपोद्भवा कृष्णां नेपाली नीलवर्णयुक् । काश्मीरी कपिलच्छाया कस्तूरी त्रिविधा स्मृता ॥ कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत् । काश्मीरदेशसंभूता कस्तूरी ह्यधमा स्मृता ॥’ अस्या गुणाः । ‘कस्तूरिका कटुस्तिक्ता क्षारोष्णा शुक्रला गुरुः । कफवातविषच्छद्दिशीतदौर्गन्ध्यदोषहृत् ॥’ इति भावप्रकाशः ॥ अन्यत् कस्तूरीशब्दे द्रष्टव्यम् ॥ (तथास्य पर्य्यायान्तरम् । ‘मृगनाभिर्मृगमदो मदः कस्तूरिकाण्डजः ।’ इति वैद्यकरत्नमालायाम् ॥)



Correction: