वाचस्पत्यम्
मृगनाभिजा || स्त्री मृगस्य नामेर्जायते जन—ड । कस्तूर्य्याम् हेमच० ।
शब्दकल्पद्रुमः
मृगनाभिजा || (स्त्री, मृगनाभेर्जायते । जन् + डः । स्त्रियां ङीष् ।)
कस्तूरी । यथा, —
“घनसारः सिताभ्रश्च चन्द्रोऽथ मृगनाभिजा । मृगनाभिर्मृगमदः कस्तूरी गन्धधूल्यपि ॥” इति हेमचन्द्रः । ३ । ३०७-८ ॥