वाचस्पत्यम्
मृगयु || पु० मृग—अस्त्यर्थे यु । १ ब्रह्मणि २ शृगाले ३ व्याधे च मेदि० “मृगयुमिव मृगोऽथ दक्षिणेर्मा” भट्टिः ।
शब्दकल्पद्रुमः
मृगयुः || पुं, (मृगं यातीति । मृग + “मृगय्वादयश्च ।” उणा० १ । ३८ । इति कुः । निपात्यते च ।)
ब्रह्मा । शृगालः । व्याधः । इति मेदिनी । ये, १०१ ॥ (यथा, भट्टिकाव्ये । ४ । ४४ । “मृगयुमिव मृगोऽथ दक्षिणेर्म्मा दिशमिव दाहवतीं मरावुदन्यन् ।”)