संस्कृत-शब्दकोशः

मृगित मृगेक्षणा

मृगी

शब्दकल्पद्रुमः

मृगी || स्त्री (मृग + जातौ ङीष् ।)
मृगजातिस्त्री । इति व्याकरणम् ॥ (यथाभिज्ञानशाकुन्तले । ६ । “शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छा म्यधः शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥”)
अस्या दुग्धगुणाः छागीदुग्धगुणतुल्याः । यथा, ‘मृगीणां जाङ्गलोत्थानां अजाक्षीरगुणं पयः ।’ इति भावप्रकाशः ॥ पुलहभार्य्या । सा कश्यपकन्या । तस्या अपत्यं हरिणादि । यथा, —
“क्रोधाच्च जज्ञिरे कन्या द्वादशैवात्मसम्भवाः । ता भार्य्याः पुलहस्य स्युर्मृगी मन्दा इरावती ॥ भूता च कपिला दंष्ट्रा कषा तिष्या तथैव च । श्वेता च सरमा चैव सरसा चेति विश्रुताः ॥ मृग्यास्तु हरिणाः पुत्त्रा मृगाश्चान्ये शशा- स्तथा । न्यङ्कवः शरभा ये च पुरवः पृषताश्च ये ॥” इति वह्निपुराणम् ॥ त्र्यक्षरच्छन्दोविशेषः । यथा । रो मृगी । ‘सा मृगीलोचना । राधिका श्रीपतेः ॥’ वृमध्या । इति छन्दोमञ्जरी ॥ अपस्माररोगः । इति लोके ख्यातः ॥ (होमोक्तमुद्राविशेषः ॥)



Correction: