वाचस्पत्यम्
मृत || न० मृ—भावे क्त । १ मरणे । २ तत्तुल्यदुःखजनके याचि- तके वृत्तौ च अमरः । कर्त्तरि क्त । ३ गतप्राणे त्रि० ।
शब्दकल्पद्रुमः
मृतं || क्ली (मृ + क्तः ।)
याचितम् । इत्यमरः । २ । ९ । ३ ॥ याचनवृत्तिर्मरणमिव दुःखजन- कत्वात् मृतं भावे कर्म्मणि वा क्तः । इति भरतः ॥ मृत्युः । इति हेमचन्द्रः ॥
शब्दकल्पद्रुमः
मृतं || त्रि याचितवस्तु । गतप्राणः । मरा इति भाषा । तत्पर्य्यायः । परासुः २ प्राप्तपञ्चत्वः ३ परेतः ४ प्रेतः ५ संस्थितः ६ प्रमीतः ७ । इत्यमरः । २ । ९ । ३ ॥ कलौ मृतस्य धन्यत्वं यथा, “धर्म्मः प्रव्रजितस्तपः प्रवसितं सत्यञ्च दूरे गतं पृष्वी मन्दफला जनाः कपटिनो लौल्ये स्थिता ब्राह्मणाः । मर्त्याः स्त्रीवशगाः स्त्रियश्च चपला नीचा जना उन्नता हा कष्टं खलु जीवितं कलियुगे धन्या नरा ये मृताः ॥” इति गारुडे ११५ अध्यायः ॥ (कार्य्यवशाज्जीवितावस्थायामपि मृतत्वं तद्- यथा, —
“चतुर्थे तु मदे मूढो भग्नदार्व्विव निष्क्रियः । कार्य्याकार्य्यविभागाज्ञो मृतादप्यपरो मृतः ॥” इति माधवकरकृतरुग्विनिश्चये पानात्यया- द्यधिकारे । यथा च । “उत्तिष्ठोत्तिष्ठ गच्छ त्वं वद मौनं समाचर । ये पराधीनतां यान्ति तेऽपि जीवन्ति के मृताः ॥” इत्युद्भटः ॥)