संस्कृत-शब्दकोशः

मृतमत्तक मृतसञ्जीवनी

मृतवत्सा

वाचस्पत्यम्

मृतवत्सा ||‍ स्त्री मृतोवत्सो यस्याः । मृतापत्यायां १ स्त्रियां २ स्त्रीगव्याञ्च “मृतवत्सा च या नारीति” तन्त्रम् ।


शब्दकल्पद्रुमः

मृतवत्सा || स्त्री (मृता वत्सा यस्याः ।)
मृता- पत्या । अजीवत्सन्ताना । गर्भावधिवर्षत्रयं यावत् पुनःपुनर्म्मृतसन्ताना । अस्या दोषशान्ति- र्यथा, —
“सप्तमीस्नपनं वक्ष्ये सर्व्वलोकहिताय वै । जातस्य मृतवत्सायाः सप्तमे मासि नारद ! । अथवा शुक्लसप्तम्यामेतत् सर्व्वञ्च शस्यते ॥ ग्रहताराबलं लब्ध्वा कृत्वा वा विप्रवाचनम् । बालस्य जन्मनक्षत्रतिथिदेवान् यजेद्बुधः ॥ तद्बद्वृद्धातुराणान्तु कृत्यं स्यादितरेषु च । गोमयेनानुलिप्तायां भूमावेकाग्निवत्तदा ॥ तण्डुलै रक्तशालीयैश्चरुं गोक्षीरसंयुतम् । निर्व्वपेत् सूर्य्यरुद्राभ्यां तन्मन्त्राभ्यां विधानतः ॥ कीर्त्तयेत् सूर्य्यदैवत्यं सप्तर्च्चञ्च घृताहुतीः । जुहुयाद्रुद्रसूक्तेन तद्वद्रुद्राय नारद ! ॥ होतव्याः समिधस्तद्वत्तथैवार्कपलाशयोः । यवकृष्णतिलैर्होमः कर्त्तव्योऽष्टशतं पुनः ॥ व्याहृतिभिरथाज्येन तथैवाष्टशतं द्विज ! । हुत्वा स्नानञ्च कर्त्तव्यमङ्ग्यङ्गेन च धीमता ॥ विप्रेण वेदविदुषा विधिवद्दर्भपाणिना । स्नापयित्वा तु चतुरः कुम्भान् कोणेषु शोभनान् ॥ पञ्चमञ्च पुनर्मध्ये दध्यक्षतविभूषितम् । स्थापयेदव्रणं कुम्भं सप्तर्च्चेनाभिमन्त्रितम् । सौरेण तीर्थतोयेन पञ्चरत्नसमन्वितम् ॥ सर्व्वान् सर्व्वौषधैर्युक्तान् पञ्चगव्यसमन्वितान् । पञ्चरत्नफलैर्युक्तान् वासोभिरभिवेष्टयेत् ॥ गजाश्वरथ्यावल्मीकसङ्गमात् ह्रदगोकुलात् । राजद्बारप्रदेशाच्च मृदमानीय निःक्षिपेत् ॥ चतुर्ष्वपि च कुम्भेषु रत्नगर्भेषु मध्यमम् । गृहीत्वा ब्राह्मणस्तन्तु सौरान्मन्त्रानुदीरयेत् ॥ सप्तभिरपि नारीभिरव्यङ्गाभिरथाप्यलम् । पूजिताभिर्यथाशक्त्या माल्यवस्त्रविभूषणैः । सविप्राभिश्च कर्त्तव्यं मृतवत्साभिषेचनम् । दीर्घायुरस्तु बालोऽयं जीवपुत्त्रा च भाविनी ॥ आदित्यश्चन्द्रमाः सार्द्धं ग्रहनक्षत्रमण्डलैः । शक्रः सलोकपालो वै ब्रह्मविष्णुमहेश्वराः । एते चान्ये च देवौघाः सदा पान्तु कुमारकम् ॥ मित्रोऽशनिर्मा हुतभुङ्मा च बालग्रहाः क्वचित् । पीडां कुर्व्वन्तु बालस्य मा मातुर्जनकस्य वै ॥ ततः शुक्लाम्बरधरा कुमारी पतिसंयुता । सप्तकं पूजयेद्भक्त्या स्त्रीणामथ गुरुं पुनः ॥ काञ्चनीञ्च ततः कृत्वा तिलपात्रोपरिस्थिताम् । प्रतिमां कूर्म्मराजस्य गुरवे विनिवेदयेत् ॥ वस्त्रकाञ्चनरत्नौघैर्भक्ष्यैः सघृतपायसैः । पूजयेद्ब्राह्मणं तद्बद्वित्तशाठ्यविवर्ज्जितः ॥ भुक्त्वा च गुरुणा चेयमुच्चार्य्या मन्त्रसन्ततिः । दीर्घायुरस्तु बालोऽयं यावद्वर्षशतं समम् । यत्किञ्चिदस्य दुरितं निःक्षिप्तं बडवानले ॥ ब्रह्मा रुद्रो वसु स्कन्दो विष्णुर्देवो हुताशनः । रक्षन्तु सर्व्वदुष्टेभ्यो वरदाः सन्तु सर्व्वदा ॥ एवमादीनि वाक्यानि वदन्तं पूजयेद्गुरुम् । शक्तितः कपिलां दद्यात् प्रणिपत्य विसर्ज्जयेत् ॥ गुरुञ्च पुत्त्रसहिता प्रणम्य रविशङ्करौ । हुतशेषं तदाश्नीयादादित्याय नमोऽस्तु ते ॥ इदमेवाद्भुतोद्वेगदुःखस्वप्नेषु शस्यते । कर्त्तृजन्मदिनर्क्षाणां देवान् संपूजयेत् सदा ॥ शान्त्यर्थं शुक्लसप्तम्यामेतत् कुर्व्वन्न सीदति ॥ स चानेन विधानेन दीर्घायुरभवत्ततः । सम्बत्सराणामयुतं शशास पृथिवीमिमाम् ॥” इति मात्स्ये ६४ अध्यायः ॥ तल्लक्षणशान्त्यौषधानि यथा, —
“गर्भः संजातमात्राद्बा पक्षात् मासाच्च वत्सरात् । म्रियते द्वित्रिवर्षाद्वा यस्याः सा मृतवत्सिका ॥ तत्र योगं प्रकर्त्तव्यं यथा शङ्करभाषितम् ॥ मार्गशीर्षे तथा ज्येष्ठे पूर्णिमालेपिते गृहे । नूतनं कलसं पूर्णं पूजयेन्मातृकाः सुधीः ॥ शाखाफलसमायुक्तं नवरत्नसमन्वितम् । सुवर्णसूत्रिकायुक्तं षट्कोणमण्डले स्थितम् । तन्मध्ये पूजयेद्देवीं एकान्तीनामविश्रुताम् ॥ गन्धपुष्पाक्षतैर्धूपैर्दीपनैवेद्यसंयुतैः । पूजयेद्भक्तिभावेन मद्यमांसैः समत्स्यकैः ॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथा चैन्द्री षट्पत्रेषु च मातरः ॥ पूजयेन्मन्त्रपूतेन फेँकारे नाम विश्रुते । दधिभक्तानि पिण्डानि सप्तसङ्ख्यानि कारयेत् ॥ षट्सङ्ख्येषु च पत्रेषु मातृभ्यः कल्पयेत् पृथक् । चिल्लेभ्यः सप्तमं पिण्डं शुचिस्थाने बहिः क्षिपेत् । तैर्भुक्ते गृहमागच्छेच्चक्राग्रे यागमारभेत् ॥ कन्यकां योगिनीं वामां भोजयेत् सकुटुम्बकैः । दक्षिणां दापयेत्तासां देवताग्रे न चान्यथा ॥ विसृज्य देवताञ्चाथ नद्यां तत्कलसोदकम् । शकुनं वीक्षयेद्धीमान् शुभेन शुभमादिशेत् ॥ विपरीते पुनः कार्य्यं यागं तन्तु सुसिद्धिदम् । प्रतिवर्षमिदं कार्य्यं दीर्घजीविसुतं लभेत् ॥” ॐ ह्रीं फेँ एकान्तीदेवतायै नमः । अनेन मन्त्रेण पूजा जपश्च कार्य्यः ॥ * ॥
“प्राङ्मुखः कृत्तिकाऋक्षे बन्ध्याकर्कोटकीं हरेत् । तत्कन्दं पेषयेत्तोयैः कर्षमात्रं सदा पिवेत् ॥ या बीजपूरं द्रवमूलमेकं क्षीरेण पक्वं प्रपिवेत् विमिश्रम् । ऋतौ निजं या तु पतिं प्रयाति दीर्घायुषं सा तनयं प्रसूते ॥ मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला । मेदा पयस्या काकोलीमूलञ्चैवाश्वगन्धजम् ॥ अजमोदा हरिद्रे द्बे हिङ्गुः कटुकरोहिणी । उत्पलं कुमुदं द्राक्षा काकोल्योर्म्मूलकद्वयम् । एतेषां कर्षकैर्भागैर्घृतप्रस्थं विभावयेत् ॥ शतावरीरसं क्षीरं घृतस्येदं चतुर्गुणम् । संपिवेन्नियतं नारी नित्यं स्त्रीषु च शस्यते । पुत्त्रान् जनयते नारी मेधाट्यान् प्रियदर्शनान् ॥ या चैवास्थिरगर्भा स्यात् या नारी जनयेन् मृतम् । अल्पायुषञ्च जनयेत् या च कन्याः प्रसूयते ॥ योनिदोषे रजोदोषे गर्भस्रावे च शस्यते । प्रजावर्द्धनमायुष्यं सर्व्वग्रहनिवारणम् ॥ नाम्ना फलघृतं ह्येतदायुष्यं परिकीर्त्तितम् । नोक्तञ्च लक्ष्मणामूलं वदन्त्यत्र चिकित्सकाः ॥ जीववत्साशुक्लवर्णाघृतमत्र तु दीयते । अरण्यगोमयेनात्र वह्नेर्ज्वाला प्रदीयते ॥” अत्र पयस्या क्षीरयुक्तभूमिकुष्माण्डम् । उत्- पलं नीलम् । इति इन्द्रजालतन्त्रे मृतवत्सा- चिकित्सा ॥ * ॥
अन्यच्च । अथ मृतवत्सासुत- जीवनोपायः । ईश्वर उवाच । “गर्भः संजातमात्रेण पक्षान् मासाच्च वत्सरात् । म्रियते द्वित्रिवर्षादिर्यस्याः सा मृतवत्सका ॥ गृहीत्वा शुभनक्षत्रे अपामार्गस्य मूलकम् । गृहीत्वा लक्ष्मणामूलं एकवर्णगवां पयः । पीत्वा सा लभते गर्भं दीर्घजीविसुता भवेत् ॥ यस्यै कस्यै व दातव्यं नान्यथा शङ्करोदितम् ॥ बन्ध्याकर्कोटिकाकन्दं मोचाराजेन पेषयेत् । ऋतुकाले तु सप्ताहं दीर्घजीविसुता भवेत् । सत्यं सत्यं प्रकर्त्तव्यं यथा शङ्करभाषितम् ॥ * ॥
मार्गशीर्षेऽथवा ज्येष्ठे पूर्णायां लेपिते गृहे । नूतनं कलसं पूर्णं गन्धतोयेन कारयेत् ॥ शाखाफलसमायुक्तं नवरत्नसमन्वितम् । सुवर्णमुद्रिकायुक्तं षट्कोणमण्डले स्थितम् । तन्मध्ये पूजयेद्देवीमेकान्तीनामविश्रुताम् ॥ गन्धपुष्पाक्षतैर्धूपैर्द्दीपैर्नैवेद्यसंयुतैः । अर्च्चयेद्भक्तिभावेन दुग्धं माषं तथा मधु ॥ वाराही च तथा चैन्द्री ब्राह्मी माहेश्वरी तथा । कौमारी वैष्णवी देवी षट्सु कोणेषु मातरः । पूजयेन्मन्त्रभावेन दधिपिण्डानि कारयेत् ॥ सप्तसङ्ख्याप्रमाणानि षट्सङ्ख्या षट्षु पात्रतः । सप्तमन्तु पृथक् कृत्वा शुचिस्थाने विशेषतः ॥ तद्भुक्तं गृहमागच्छेत् कन्यका वटुकस्त्रियः । भोजयेद्दक्षिणां दत्त्वा प्रणामं कारयेत्ततः ॥ विसृज्य स्वेष्टदेवीञ्च आद्यां तत्सकलेष्टदाम् ॥ शकुनं वीक्षयेद्धीमान् शुभेन शुभमादिशेत् ॥ विपरीते पुनः कार्य्यं यागं तावत् सुसिद्धिदम् । प्रतिवर्षमिदं कुर्य्यात् दीर्घजीविसुतं लभेत् । सिद्धियोगमिदं ख्यातं नान्यथा शङ्करोदितम् ॥” अथ मन्त्रः । ॐ परं ब्रह्म परमात्मने अमुकी- गृहे दीर्घजीविसुतं कुरु कुरु स्वाहा ॥ * ॥
अथ काकबन्ध्या । ईश्वर उवाव । “पूर्ब्बं पुत्त्रवती या सा क्वचिद्बन्ध्या भवेद्यदि । काकबन्ध्या तु सा ज्ञेया चिकित्सा तत्र कथ्यते ॥ विष्णुक्रान्तां समूलान्तु पिष्ट्वा माहिषदुग्धके । महिषीनवनीतेन ऋतुकाले तु भक्षयेत् ॥ एवं सप्तदिनं कुर्य्यात् पथ्ययुक्तिश्च पूर्ब्बवत् । गर्भं सा लभते नारी काकबन्ध्या सुशोभनम् ॥ अश्वगन्धीयमूलन्तु ग्राहयेत् पुष्यभास्करे । पेषयेन्महिषीक्षीरे पलार्द्धं भक्षयेत् सदा ॥ सप्ताहाल्लभते गर्भं काकबन्ध्या चिरायुषम् । यस्यै कस्यै न दातव्यं नान्यथा शङ्करोदितम् ॥” अथ मन्त्रः । ॐनमः शक्तिरूपाय अस्या गृहे पुत्त्रं कुरु कुरु स्वाहा । १०००० जपात् सिद्धिः । इति श्रीदत्तात्रेयतन्त्रे ईश्वरदत्तात्रेयसंवादे जन्मबन्ध्यादीनां पुत्त्रकरणं नाम सप्तदशपटलः ॥ क्वचिद्ग्रन्थे २० पटलः ॥



Correction: