वाचस्पत्यम्
मृदङ्ग || पु० मृद अङ्गच् किच्च । १ वाद्यभेदे अमरः । २ कोषा- तक्या स्त्री रत्नमा० गौरा० ङीष् ।
शब्दकल्पद्रुमः
मृदङ्गः || पुं, (मृद्यते आहन्यते असौ इति । मृद् + “विडादिभ्यः कित् ।” उणा० १ । १२० । इति अङ्गच् । सच कित् । यद्वा, मृत् अङ्गमस्येत्यमर- टीकायां रघुनाथः ।)
स्वनामख्यातवाद्यम् । तत्पर्य्यायः । मुरजः २ । इत्यमरः । १ । ७ । ५ ॥ (यथा, शिशुपालवधे । ११ । २ । “रजनिविरतिशंसी कामिनीनां भविष्यद्- विरहविहितनिद्राभङ्गमुच्चैर्मृदङ्गः ॥”)
पटहः । घोषः । इति मेदिनी । गे, ४७ ॥ वंशः । इति शब्दमाला ॥ (मृदङ्गादेर्मङ्गल- जनकत्वमाह स्मृतिः । “रोचनं चन्दनं हेम मृदङ्गं दर्पणं मणिम् । गुरूनग्निं तथा सूर्य्यं प्रातः पश्येत् सदा बुधः ॥”)
अथ मृदङ्गादिविवरणम् । “मर्द्दलः खादिरः श्रेष्ठो हीनः स्यादन्यदारुजः । रक्तचन्दनजो वाद्यो गभीरध्वनिरुच्चकैः ॥ सार्द्धहस्तप्रमाणन्तु दैर्घ्यमस्य विधीयते । त्रयोदशाङ्गुलं वाममथवा द्वादशाङ्गुलम् ॥ दक्षिणञ्च भवेद्धीनमेकेनार्द्धाङ्गुलेन वा । करणानद्धवदनो मध्ये चैव पृथुर्भवेत् ॥ षण्मासीयो भवेद्वस्तस्तच्चर्म्मकरणं मतम् । मृत्तिकानिर्म्मितश्चैव मृदङ्गः परिकीर्त्तितः ॥ पातयेत् खरलिं वाद्यवादनार्थञ्च मर्दले । विभूतिर्गैरिकं भक्तं केन्दुकेन च संयुतम् ॥ यद्बा चिपीटकं देयं जीवनीसत्त्वमिश्रितम् । सर्व्वमेफत्र पिष्टन्तल्लेपः खरलिरुच्यते ॥ वामास्ये पूरिकां कृत्वा लेपं दद्याच्च दक्षिणे । एवं मर्द्दलकः प्रोक्तः सर्व्ववाद्योत्तमो मतः ॥ अस्य संयोगमासाद्य सर्व्वं वाद्यञ्च शोभते । एतदङ्गे बीजकाष्ठे दलमर्द्धाङ्गुलं विदुः ॥ * ॥
तधि धोतेमिति ज्ञेयाः पाढवर्णा मृदङ्गजाः । थों दं ढें धिक्वटस्तद्धी ताकं दं दं थोगं धिधि ॥ खर्झझिं नं गटं दं था कुटपाटा मता अमी । तथिं थोंढें तक्कधी दों दं दं धिग्णां ततं तधि ॥ तक्क तं धं धि दों ताधि पाढखण्डे त्वयं क्रमः ।” तथा च यतिमाने पाढखण्डः । द्रगतथेजां द्रगतथेजां धो धो धिकता धिका थोजां थोजां तक तता धिका थोता द्रग तता धि धि धिधि कड ताकड नाथोधिक थोजां धोताद्रगत ताद्रगत ताद्रगत ताधि । इति यतिमाने पाढ खण्डः ॥ * ॥
“यतिरोढोऽप्यवच्छेदो गजरो रूपकं ध्रुवम् । गलपः सारिगोणी च नादश्च कथितं तथा । प्रहरणं वृन्दनञ्च प्रबन्धा द्बादश स्मृताः ॥” यथा । दं थात इत्येकताल्यां यतिः ॥ * ॥
ओढवाद्यं यथा । दां तथो तधिक तधिक दं थादं था थोधि थोधि तत्त तत्तथ विथ विदिश्यां दिश्यां टटु न कि टटु नकि तद टङ्ग तद टङ्ग खवटङ्ग खवटङ्ग तगि नगि तगि नगि दां दां दं दं दीं दीं दं ता तथा । इत्योढवाद्यम् ॥ * ॥
अवच्छेदवाद्यं यथा । दं थातः दं थातः धिक्कि धिक्कि दिगणं दं थातः । इत्यवच्छेदवाद्यम् ॥ * ॥
गजरवाद्यं यथा । थोक टेञ नेञ ढें डें गथो गथोङ्क टेङ्क थोगतकि धिक तकि धिक टेङ्कन धि धि कट तक थोक तधिकट तक्कक तथोग तद्धीम् । इत्येकताल्यां गजरः ॥ * ॥
रूपक- वाद्यं यथा । तकधिक् तकधिक्क थवितकि थवि- तक्कि धिक्क दं थातः । इति रूपकवाद्यम् ॥ * ॥
ध्रुवकवाद्यं यथा । तक्क तक्कट धिक्क धिक्कट । इति निसारताले ध्रुवकः ॥ * ॥
गलपो यथा । तधिद्धि धिक तक तधि गलगं था था दें तथा ढञन । इत्येकताल्यां गलपः ॥ * ॥
सारिगोणी यथा । थोङ्गटेञ तक्क धिक्क तकधिक् तकथो हटङ्गन हटङ्गन थोगक्क थोः । इति प्रथम- खण्डः ॥ * ॥
टेञ थोः धि खोहः टेञ टेञ दक्क तगदक्क धिक्क तदिदक्क दं गदं गखो गखोक तक तक धिक तधिक् तधो ढेञ धोटेञ धटे गल खोगगल खोग खोहट गें टगें खोह- टञ । इत्यस्य छन्दनम् । इति सारिगोणी ॥ नादो यथा, —
“दांकारत्रितयं पूर्ब्बं दां धिगिति ततस्त्रयम् । दां दां धिकत्रयं यत्र इति नादः शचीप्रियः ॥” इति नादः ॥ “द्रुतं मानसमारब्धं शुद्धं कूटविनिर्म्मितम् । सप्तषण्डमयं वाद्यं कथितं तदिहोच्यते ॥” * ॥
द्रुतमानत्वात् प्रतिताले यथा । तत्तत तत्तत तक्कि तक्कि दिदं धिगनथो धिगनथो धिक्क धिक् धिक्क धिक्क धिक नगि नगमि थो थो धि धि धिः दां दां धिक्क थो थो हथो हनञि थो नञिथो थोह थोह डेढि डेढि थोह थोह तटि तटि तटुक गीं गीं धगि धगि तत तधे तत तधे ततत गिङी ञङी थोग थोग थों थोगग थोगथो तत्ततो । “इति सप्तपदान्याहुः कथितं वाद्यपण्डिताः । प्रतितालेन तालेन पादवर्णसमासतः ॥ गन्धर्व्वपतिना पूर्ब्बमुर्व्वशीलास्यनर्त्तने । सुधर्म्मारञ्जनार्थञ्च कथितं प्रकटीकृतम् ॥” प्रहरणं यथा । थोगक्का तद्धिका थाग कट गगों दं थोग दिद्धिक धिक्क धिकटेञ । इत्येक- ताल्यां प्रहरणम् ॥ * ॥
“वाद्यं विमुच्यते येन छन्दनं तन्निगद्यते ।” यथा, तद्धिथो दिञ टेञ तन्नः । इति छन्दनम् ॥ * ॥
मर्द्दलस्त्रयोदशाङ्गुलवाममुखो द्वादशाङ्गुल- दक्षिणमुखः । मुरजस्त्वष्टादशाङ्गुलवाममुखः सप्तदशाङ्गुलदक्षिणमुखः मर्द्दलमुरजयोरयं भेदः । इति सङ्गीतदामोदरः ॥