वाचस्पत्यम्
मृद्(दा) || स्त्री मृद्यते मृद—कर्मणि क्विप् । मृत्तिकायाम् (माटी) अमरः हलन्तत्वात् वा टाप् । मृदाप्यत्र ।
शब्दकल्पद्रुमः
मृत् || [द्] स्त्री, (मृद्नाति प्रलये चूर्णतया स्वकारणे लीयत इति । मृद् + कर्त्तरि क्विप् ।)
मृत्तिका । इत्यमरः । २ । १ । ४ । (यथा, मनुसंहिता- याम् । ४ । ३९ । “मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्व्वीत प्रज्ञातांश्च वनस्पतीन् ॥” (यथास्या गुणाः । “कषाया मारुतं पित्तमुषरा मधुरा कफम् ॥ कोपयेन्मृद्रसादींश्च रौक्ष्याद्भुक्तञ्च रूक्षयेत् । पूरयत्यविपक्वैव स्रोतांसि निरुणद्ध्यपि । इन्द्रियाणां बलं हत्वा तेजोवीर्य्यौजसी तथा । पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम् ॥” इति माधवकरकृतरुग्विनिश्चये पाण्डुरोगाधि- कारे ।)
तुवरी । इति राजनिर्घण्टः ॥ * ॥
मृत्तिकाशौचं यथा, —
“दिवासन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः । कुर्य्यात् मूत्रपुरीषे तु रात्रौ वै दक्षिणामुखः ॥ गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः । गन्धलेपक्षयकरं शौचं कुर्य्यान्महाव्रताः ॥” इति गारुडे ९४ अध्यायः ॥