संस्कृत-शब्दकोशः

मेकलाद्रिजा मेखल

मेक्षण

वाचस्पत्यम्

मेक्षण ||‍ न० “इध्मजातीमिध्मार्द्धप्रमाणं मेक्षणं भवेत् । वृत्तं वार्क्षं च पृथ्वग्रमवदानक्रियाक्षमम्” छन्दोगप० उक्ते यज्ञ- पात्रभेदे । इध्मप्रमाणं प्रादेशद्वयम् ।


शब्दकल्पद्रुमः

मेक्षणं || क्ली यज्ञीयपात्रविशेषः । (यथा, आश्व- लायनश्रौतसूत्रे । २ । ६ । १२ । “मेक्षणेनादायावदानसम्पदा जुहुयात् ॥”)
यथा, मेक्षणादीनाह छन्दोगपरिशिष्टम् । “इध्मजातीयमिध्मार्द्धप्रमाणं मेक्षणं भवेत् । वृत्तं वार्क्षञ्च पृथ्वग्रमवदानक्रियाक्षमम् ॥” इध्मार्द्धप्रमाणम् । प्रादेशद्बयमिध्मस्य प्रमाणं परिकल्पितमिति । तदर्द्धम् । एषैव दर्व्वी । विशेषस्तु महास्रुवे । “दर्व्वी द्व्यङ्गुलपृथ्वग्रा तुरीयेण तु मेक्षणम् । मुषलोदूखले वार्क्षे स्वायते सुदृढे तथा ॥” इति संस्कारतत्त्वम् ॥



Correction: