संस्कृत-शब्दकोशः

मेखलकन्यका मेखलाद्रिजा

मेखला

वाचस्पत्यम्

मेखला ||‍ स्त्री मि—खलच् । “मेखला त्वष्टयष्टिका” उक्ते १ स्त्री- कट्याभूषणभेदे अमरः । उपनयनकाले ब्रह्मचारिधार्य्ये मौञ्ज्यादौ २ कटीसूत्रे “मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्य्या विप्रस्य मेखला । क्षत्रियस्य च मौरीया वैश्यस्य शण- तन्तुजा” मनुः । ३ खड्गादर्मुष्ट्याधारणार्थे ४ उपर्य्यधो- भागेन बन्धे ५ शैलनितम्बे सेदि० ६ नर्मदायां शब्दर० ७ पृश्निपर्ण्याम् राजनि० । होमकुण्डोपरिस्थे मृत्कृते ८ वेष्टनभेदे च ।


शब्दकल्पद्रुमः

मेखला || स्त्री (मीयते प्रक्षिप्यते कायमध्यभागे इति । मि + संज्ञायां खलः गुणश्च स्त्रियां टाप् । इत्यमरटीकायां भरतमतम् ।)
स्त्रीकट्याभ- रणम् । चन्द्रहार गोट् इत्यादि भाषा ॥ (यथा, रघुवंशे । ८ । ६४ । “असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि ! सुप्यते ॥”)
तत्पर्य्यायः । काञ्ची २ सप्तकी ३ रसना ४ सारसनम् ५ । इत्यमरः । २ । ६ । १०८ ॥ काञ्चिः ६ रशना ७ कक्षा ८ रसनम् ९ रशनम् १० कक्ष्या ११ सप्तका १२ सारशनम् १३ । इति शब्दरत्नावली ॥ कलापः १४ । इति जटाधरः ॥ सारसनं स्त्रीकट्यां वस्त्रग्रन्थनम् । इति स्वामी ॥ केचित्तु । “एकयष्टिर्भवेत् काञ्ची मेखला त्वष्टयष्टिका । रसना षोडश ज्ञेया कलापः पञ्चविंशकः ॥” इति पठन्ति । इह त्वभेदात् पर्य्यायता । इति भरतः ॥ खड्गादिनिबन्धनम् । इत्यमरः । २ । ८ । ९० ॥ शिक्कनिका । चर्म्मरज्वादि । मुष्टि- दार्ढ्यार्थं उपर्य्यधो लौहबन्धः । इत्येके । इत्यपि भरतः ॥ * ॥
शैलनितम्बः । इति मेदिनी । ले, १२५ ॥ नर्म्मदानदी । इति शब्दरत्नावली ॥ पृश्निपर्णी । इति राजनिर्घण्टः ॥ * ॥
उपनयन- काले धारणीयमुञ्जनिर्म्मितसूत्रत्रयम् । यथा । अथैनं माणवकमाचार्य्यस्त्रिः प्रदक्षिणं त्रिवृत्त- मुञ्जमेखलां परिधापयन् मन्त्रद्वयं वाचयति । इति भवदेवभट्टः ॥ अपि च । गोभिलः । मुञ्ज- काशतासून्यो रसनाः । मुञ्जः शरः । तासूनः शणस्तद्भवा तासूनी । रसना मेखला । तथा च मनुः । “मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्य्या विप्रस्य मेखला । क्षत्त्रियस्य च मौर्व्वीया वैश्यस्य शणतान्तवी ॥ मुञ्जालाभे तु कर्त्तव्या कुशाश्मन्तकवल्वजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥” इति संस्कारतत्त्वम् ॥ अन्यच्च । “गर्भाष्टमेऽष्टमे वाब्दे स्वसूत्रोक्तविधानतः । दण्डी च मेखली सूत्री कृष्णाजिनधरो मुनिः ॥ मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्य्या विप्रस्य मेखला । मौञ्ज्यभावे कुशेनाहुर्ग्रन्थिनैकेन च त्रिभिः ॥” इति कौर्म्म्ये उपविभागे ११ अध्यायः ॥ होमकुण्डोपरिमृद्घटितवेष्टनविशेषः । यथा, वशिष्ठपञ्चरात्रे । “यावान् कुण्डस्य विस्तारः खननं तावदिष्यते । हस्तैके मेखलास्तिस्रो वेदाग्निनयनाङ्गुलाः ॥ कुण्डे द्विहस्ते ता ज्ञेया रसवेदगुणाङ्गुलाः । चतुर्हस्ते तु कुण्डे ता वसुतर्कयुगाङ्गुलाः ॥” मेखला ब्रह्मचारिमेखलावत् कुण्डवेष्टिता मृद्- घटिता ताश्च खातदेशाद्बाह्ये एकाङ्गुलिरूपं कण्ठं परित्यज्य उच्छ्रायेण विस्तारेण चेत्यादि क्रमेण वेदाद्यङ्गुलाः एतद्विपरीतास्तन्त्रान्तरोक्ता व्यवहारविरुद्धाः । वेदाश्चत्वारः अग्नयस्त्रयः नयने द्वे रसाः षट् गुणास्त्रयः । वसुतर्कयुगानि अष्टषट्चत्वारि । पिङ्गलामतेऽपि । खाता- देकाङ्गुलं त्यक्त्वा मेखलानां विधिर्भवेत् । इति तिथ्यादितत्त्वे दुर्गोत्सवतत्त्वम् ॥ (यज्ञवेष्टन- सूत्रम् । यथा, श्रीमद्भागवते । ४ । ५ । १५ । “रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन् । कुण्डेष्वमूत्रयन् केचिद्विभिदुर्वेदिमेखलाः ॥” “मेखलाः सीमासूत्राणि ।” इति तट्टीकायां श्रीधरस्वामी ॥)



Correction: