संस्कृत-शब्दकोशः

मेघभूति मेघमाला

मेघमाल

शब्दकल्पद्रुमः

मेघमालः || पुं, (मेघमाला वर्णसादृश्येन अस्त्यस्य । अर्श आद्यच् ।)
रमागर्भजातकल्किदेवपुत्त्रः । यथा । “तथा रमा सिते पक्षे ।” इत्युपक्रम्य । “सा पुत्त्रं सुषुवे साध्वी मेघमालबलाहकौ । महोत्साहौ महावीर्य्यौ सुभगौ कल्किसम्मतौ ॥” इति कल्किपुराणे ३१ अध्यायः ॥ (प्लक्षद्बीपस्थपर्व्वतविशेषः । यथा, भागवते । ५ । २० । ४ । “सुवर्णो हिरण्यष्ठीवो मेघमाल इति सेतु- शैलाः ॥” राक्षसविशेषः । इति रामायणे । ३ । २९ । ३१ ॥)



Correction: