शब्दकल्पद्रुमः
मेघमाला || स्त्री (मेघानां माला ।)
मेघश्रेणी । तत्पर्य्यायः । कादम्बिनी २ । इत्यमरः । १ । २ । ८ ॥ (यथा, उत्तररामचरिते । २ । “मेघमालेव यश्चायमारादपि विभाव्यते ।” स्कन्दमातृगणानामन्यतमा । यथा, महाभारते । ९ । ४६ । २९ । “एकवक्त्रा मेघरवा मेघमाला विरोचना ॥”)