वाचस्पत्यम्
मेघवह्नि || पु० मेघजन्यो वह्निस्तद्घर्षणजातोग्निः । वज्राग्नौ हेमच० । एवं मेघानलादयोप्यत्र ।
शब्दकल्पद्रुमः
मेघवह्निः || पुं, (मेघस्य मेघजन्यो वा वह्निः ।) वज्राग्निः । तत्पर्य्यायः । इरम्मदः २ । इति हेमचन्द्रः । ४ । १६७ ॥