वाचस्पत्यम्
मेचक || न० मच—वुन् पृषो० । १ अन्धकारे २ स्रोतोऽञ्जने च मेदि० ३ नीलाञ्जने राजनि० । ४ मयूरचन्द्रके ५ कृष्णवर्णे मेदि० । ६ धूमे ७ मेघे ८ शोभाञ्जने शब्दर० ९ कृष्णवर्ण- युते त्रि० अमरः ।
शब्दकल्पद्रुमः
मेचकं || क्ली (मचति वर्णान्तरेण मिश्रीभवतीति । मच् + “कृञादिभ्यः संज्ञायां वुन् ।” उणा० ५ । ३५ । इति वुन् । ततः “पचिमच्योरिच्च ।” उणा० ५ । ३७ । इति इत्वे लघूपधगुणः । यद्वा, मच मचि कल्कने + अकन् । मचि परिमुचां नाम्नीत्येत्वम् । मेचकः कृष्णनीलः स्यादतसीपुष्पसन्निभः । इति शब्दार्णवः । व्युत्पत्तिस्तु मचति मिश्रीभवति वर्णान्तरेण इति भरतः । इत्यमरटीकायां रघु- नाथचक्रवर्त्ती ।)
श्रोतोऽञ्जनम् । अन्धकारः । इति मेदिनी । के, १४० ॥ नीलाञ्जनम् । इति राजनिर्घण्टः ॥ (यथा, —
“मेचकं मर्द्दनाञ्जनपिण्डवदीषत्कृष्णरूक्षम् ।” इति माधवकरकृतरुग्विनिश्चयव्याख्यानेऽतीसा- राधिकारे विजयरक्षितः ॥)
शब्दकल्पद्रुमः
मेचकः || पुं, मयूरचन्द्रकः । श्यामलः । इति मेदिनी । के, १४० ॥ (यथा, “मेचकामं आगार- धूमाभञ्च ससारगन्धकादिमणिमसृणीकृतकृष्ण- वर्णस्येव वर्णो मेचक इति जेज्जडादयः प्राहुः चिक्कणकृष्ण इत्यर्थः ।” इति रुग्विनिश्चयस्य रक्तपित्तव्याख्याने विजयेनोक्तम् ॥)
धूमः । मेघः । शोभाञ्जनः । इति शब्दरत्नावली ॥ श्यामलगुणयुक्ते, त्रि । इत्यमरः । १ । ५ । १४ ॥ (यथा, शिशुपालवधे । ६ । २६ । “गजकदम्बकमेचकमुच्चकै- र्नभसि वीक्ष्य नवाम्बुदमम्बरे ॥”)