वाचस्पत्यम्
मेद || बधे मेधायाञ्च सक० भ्वा० उभ० सेट् । मेदति ते अमेदीत् अमेदिष्ट । ऋदित् चङि न ह्रस्वः ।
शब्दकल्पद्रुमः
मेद || ऋ ञ वधमेधयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-सक०-सेट् ।)
ऋ, अमिमेदत् । ञ, मेदति मेदते शास्त्रार्थं शिष्यः धारयतीत्यर्थः । मिमेदुः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
मेदः || पुं, (मेद्यति स्निह्यतीति । मिद् + अच् ।)
वपा । इति शब्दचन्द्रिका ॥ “तृष्णाकण्डुकृमिहरो मलघ्नो मेदकुष्ठहा ॥” इति भरतधृतशालिहोत्रः ॥)
म्लेच्छजातिविशेषः । इति जटाधरः ॥ अल- म्बुषा । इति राजनिर्घण्टः ॥ (ऐरावतकुलजो नागविशेषः । यथा, महाभारते । १ । ५७ । ११ । “विहङ्गः शरभो मेदः प्रमोदः संहतापनः । ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् ॥”)