संस्कृत-शब्दकोशः

मेदःसारा मेदस्कृत्

मेदस्

वाचस्पत्यम्

मेदस् ||‍ न० मेद—असुन् । मांसजन्ये धातुभेदे (वसा) अच् । मेद अत्रैव पु० ।


शब्दकल्पद्रुमः

मेदः || [स्] क्ली, (मेद्यति स्निह्यतीति । मिद् + “सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।)
मांसप्रभवधातुविशेषः । तत्पर्य्यायः । वपा २ वसा ३ । इत्यमरः । २ । ६ । ६४ ॥ मेदः ४ । अकारान्त इति भरतः ॥ अस्य गुणाः । वात- नाशित्वम् । बलपित्तकफदातृत्वञ्च । इति राज- वल्लभः ॥ अथ मेदसः स्वरूपमाह । “यन्मांसं स्वाग्निना पक्वं तन्मेद इति कथ्यते । तदतीव गुरु स्निग्धं बलकार्य्यतिबृंहणम् ॥” अथ मेदसः स्थानमाह । “मेदो हि सर्व्वभूतानामुदरेष्वस्थिषु स्थितम् । अतएवोदरे वृद्धिः प्रायो मेदस्विनो भवेत् ॥” इति भावप्रकाशः ॥ रोगविशेषः । तत्र मेदसो विप्रकृष्टं निदान- माह । “अव्यायामदिवास्वप्नश्लेष्मलाहारसेविनः । मधुरोऽन्नरसः प्रायः स्नेहान्मेदो विवर्द्धयेत् ॥” अन्नरसः आमद्रवः । तथा च सुश्रुतः । आमद्रवान्नरसो मधुरश्च भवतीति । मेदसो- ऽतिप्रवृद्धौ वैगुण्यमाह । “मेदसावृतमार्गत्वात् पुष्यन्त्यन्ये न धातवः । मेदस्तु चीयते तस्मादशक्तः सर्व्वकर्म्मसु ॥” अन्ये धातवः अस्थ्यादयः शुक्रान्ताः । न पुष्यन्ति न पुष्टा भवन्ति । चीयते सञ्चितं भवति वर्द्धत इति यावत् । तस्मात् मेदस्वी सर्व्वकर्म्मसु अशक्तः स्यात् । मेदसः सौकुमार्य्यात् । अपरा- नपि दोषानाह । “क्षुद्रश्वासतृषामोहस्वप्नक्रन्थनसादनैः । युक्तः क्षुत्स्वेददौर्गन्धैरल्पप्राणोऽल्पमैथुनः । मेदसः स्वेददौर्गन्ध्याज्जायन्ते जन्तवो नरः ॥” क्रन्थनं उच्छ्वासावरोधः । कण्ठेन घुर्घुर इत्यन्ये । जन्तवः क्रिमयः । मेदसः स्थानमाह । “मेदस्तु सर्व्वभूतानामुदरेष्वस्थिषु स्थितम् । अतएवोदरे वृद्धिः प्रायो मेदस्विनो भवेत् ॥” मेदस्विनोऽपि वृद्धौ हेतुमाह । “मेदसावृतमांर्गत्वाद्बायुः कोष्ठे विशेषतः । चरन् सन्धुक्षयत्यग्निमाहारं शोषयत्यपि ॥ तस्मात् शीघ्रन्तु जरयत्याहारञ्चापि काङ्क्षति । विकारान् सोऽश्नुते घोरान् कांश्चित् काल- व्यतिक्रमात् ॥” सन्धुक्षयति प्रदीपयति । स मेदस्वी आहारं शीघ्रं जरयति पुनर्भोक्तुं काङ्क्षति स दीप्ताग्निः कालव्यतिक्रमात् भोजनकालातिक्रमात् । कां- श्चिद्विकरान् वातपित्तकरान् घोरान् अश्नुते प्राप्नोति । एते वातपित्ते मेदसावरुद्धे विशेषा- दुपद्रवकरे इत्याह । “एतावुपद्रवकरौ विशेषात् पित्तमारुतौ । एतौ हि दहतः स्थूलं वनं दावानलो यथा ॥” एतौ पित्तमारुतौ मेदसा रुद्धमार्गत्वात् कोष्ठ- मध्ये प्रवृद्धौ सन्तौ विशेषादुपद्रवकरौ दहतः नाशयेताम् । मेदसोऽतिवृद्धेर्विनाशहेतुत्वमाह । “मेदस्यतीवसंवृद्धे सहसैवानिलादयः । विकारान् दारुणान् कृत्वा नाशन्त्या जीवि- तम् ॥” विकारान् प्रमेहपिडकज्वरभगन्दरविद्रधिवात- रोगाणामन्यतमान् । अतिस्थूलतया वैगुण्य- माह । “अतिस्थूलेषु संदृष्टा विसर्पाः सभगन्दराः । ज्वरातीसारमेहार्शःश्लीपदा यषिकादयः ॥” अतिस्थूलस्य लक्षणमाह । “मेदो मांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः । अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते ॥” अयथोपचयोत्साहः न यथा उपचयो मांसोप- चयः उत्साहो बलञ्च यस्य सः ॥ * ॥
* ॥
अथ मेदस्य चिकित्सा । “पुराणाः शालयो मुद्गाः कुलत्थोद्दालकोद्रवाः । लेखना वस्तयश्चापि सेव्या मेदस्विना सदा ॥ श्रमचिन्ताव्यवायाध्वक्षौद्रजागरणप्रियः । हन्त्यवश्यमतिस्थौल्यं यवश्यामाकभोजनः ॥ क्षारं वातारिपत्रस्य हिङ्गुयुक्तं पिबेन्नरः । सहितं भक्तमण्डेन मेदोवृद्धिनिवृत्तये ॥ गुडूचीत्रिफलाक्वाथः पीतो मेदोहरः स्मृतः । गुडूचीत्रिफलाक्वाथस्तथा लोहरजोयुतम् । क्षौद्रेण त्रिफलाक्वाथः पीतो मेदहरः परः ॥ प्रातर्मधुयुतं वारि सेवितं स्थौल्यनाशनम् । उष्णमन्नस्य मण्डं वा पिबेत् कृशतनुर्भवेत् ॥ व्योषाग्नित्रिफलामुस्तविडङ्गैर्गुग्गुलुं समम् । स्वादेत् सर्व्वान् जयेद्रोगान्मेदःश्लेष्मामवातजान् ॥ पिप्पली मधुना सेव्या मेदःकफविनाशिनी ॥ धत्तूरपत्रस्वरसेन गाढ- मुद्बर्त्तनं स्थौल्यहरं प्रदिष्टम् ॥ वासादलरसो लेपाच्छङ्खचूर्णेन संयुतः । विल्वपत्ररसो वापि देहदौर्गन्ध्यनाशनः ॥ निम्बूपत्रस्वरसः प्रक्षितकक्षादियोजितं जयति । दग्धहरिद्रोद्बर्त्तनमचिराच्चिरदेहदौर्गन्ध्यम् ॥ शिरीषलामज्जकहेमलोध्रै- स्त्वग्दोषसंस्वेदहरः प्रघर्षः । शरीरदौर्गन्ध्यहरः प्रदेहः पत्राम्बुलोध्राभयचन्दनानाम् ॥” शिरीषस्यात्र पत्रं ग्राह्यं व्यवहारात् । लाम- ज्जकं सुगन्धितृणविशेषस्तदलाभे उशीरं ग्राह्यम् । हेम नागकेशरम् । अम्बु बालकम् । अभयं उशीरम् । “हरीतकीं तु संपिष्य देहमुद्बर्त्तनं नरः । पश्चात् स्नानं प्रकुर्व्वीत देहस्वेदोपशान्तये ॥ वकुलस्य दलैः सम्यग्वारिणा परिपेषितैः । देहमुद्बर्त्तयेत् पश्चाद्धरीतक्या सुपिष्टया ॥ भूय उद्बर्त्तनं कुर्य्यात् पश्चात् स्नानं समाचरेत् । प्रस्वेदान् मुच्यते शीघ्रं मेदोवृद्धिसमुद्भवात् ॥” इति मेदोऽधिकारः ॥ इति भावप्रकाशः ॥ (तथास्य विशेषः । यथा, —
“मेदः स्नेहस्वेदौ दृढत्वं पुष्टिमस्थ्नाञ्च ॥” अस्य क्षीणलक्षणं यथा, —
“मेदः क्षये प्लीहाभिवृद्धिः सन्धिशून्यता रौक्ष्यं मेदुरमांसप्रार्थना च ।” अस्यातिवृद्धिलक्षणं यथा, —
“मेदः स्निग्धाङ्गतामुदरपार्श्ववृद्धिं कासश्वासा- दीन् दौर्गन्ध्यञ्च ।” “पूर्ब्बः पूर्ब्बोऽतिवृद्धत्वाद्वर्द्धयेद्धि परं परम् । तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम् ॥” “क्षपयेद्बृंहयेच्चापि दोषधातुमलान् भिषक् । तावद्यावदरोगः स्यान्नरो रोगसमन्वितः ॥” इति सुश्रुते सूत्रस्थाने १५ अध्यायः ॥ “तृतीया मेदोधरा नाम मेदो हि सर्व्वभूताना- मुदरस्थमन्वस्थिषु च महत्सु च मज्जा भवति ॥” इति तत्रैव शारीरस्थाने ४ अध्याये ॥)



Correction: