वाचस्पत्यम्
मेधस् || पु० मेध—असुन् । स्वायम्भुवस्थ मनोः पुत्रभेदे ।
शब्दकल्पद्रुमः
मेधाः || [स्] पुं, (मेधते इति । मेध् + असुन् ।)
स्वायम्भुवमनुपुत्त्रः । यथा, —
“अग्निध्रश्चाग्निबाहुश्च सहः सबल एव च । ज्योतिष्मान् द्युतिमान् हव्यो मेधा मेधातिथि- र्ब्बसुः । स्वायम्भुवस्यास्य मनोर्दशैते वंशवर्द्धनाः ॥” इति मात्स्ये ९ अध्यायः ॥