संस्कृत-शब्दकोशः

मेधस् मेधाकृत्

मेधा

वाचस्पत्यम्

मेधा ||‍ स्त्री मेध—अङ् । १ वारणावत्यां बुद्धौ यया बुद्ध्या ज्ञातस्य न विस्मरणं तत्र । नञ्दुःसुशब्दात् बहु० असिच्समा० । अमेधाः दुर्मेधाः सुमेधाः इत्यादि । आधारे घञ् । २ यागे पु० ।


शब्दकल्पद्रुमः

मेधा || स्त्री (मेधते सङ्गच्छते अस्यामिति । मेध् + “षिद्भिदादिभ्योऽङ् ।” ३ । ३ । १०४ । इत्यङ् । टाप् ।)
धारणावती बुद्धिः । इत्यमरः । १ । ५ । २ ॥ धारणाशक्तियुक्ता धीर्मेधा मेधते सङ्गच्छतेऽस्यां सर्व्वं बहुश्रुतं विषयीकरोति इति वा मेधा मेधृ- ञ सङ्गे मेधायां सेमक्तात् सरोरित्यः आपबहु- श्रुतविषयीकरणं धारणा यदुक्तं धारणा बुद्धे- र्गुणविशेषः इति ॥ इति भरतः ॥ * ॥
(यथा, मुण्डकोपनिषदि । ३ । २ । ३ । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥”)
मेधाकरं औषधं यथा, —
“शङ्खपुष्पी वचा सोमा ब्राह्मी ब्रह्मसुवर्च्चला । अभया च गुडूची च अटरूषकवाकुची । एतैरक्षसमैर्भागैर्घृतं प्रस्थं विपाचयेत् ॥ कण्टकार्य्या रस प्रस्थं बृहत्या च समन्वितम् । एतद्ब्राह्मीघृतं नाम स्मृतिमेधाकरं परम् ॥” इति गारुडे १९८ अध्यायः ॥ * ॥
मेधाकरगणो यथा । सतताध्ययनम् । तत्त्व- ज्ञानकथा । श्रेष्ठतन्त्रशास्त्रावलोकनम् । सद्द्वि- जाचार्य्यसेवा च । इति पुराणम् ॥ (दक्षप्रजा- पतिकन्याविशेषः । यथा, —
“कीर्त्तिलक्ष्मी र्धृतिर्मेघा पुष्टिः श्रद्धा क्रिया मतिः ॥” इति वह्निपुराणे गणभेदनामाध्याये ॥ धनम् । इति निघण्टुः । २ । १० ॥ “मिधृ मेधृ सङ्गमे च । चकारात् हिंसामेधयोश्च । मिधिः सङ्गत्यर्थः । इति माधवः । घज् । सङ्गच्छतेऽनेन सर्व्वं तद्बता हिंस्यते वा तद्वान् चौरादिभिः घ्नन्ति चैवार्थकारणात् इति महाभारतम् ॥ यद्वा, मतौ धीयते अर्जयितव्यं रक्षितव्यं दातव्य- मिति धनवता बुद्धौ धनं धार्य्यते । तत्र मति- शब्द उपपदे धातोः घञर्थे कविधानम् इति कः । पृषोदरादित्वात् मतिशब्दस्य मेभावः ।” इति तद्भाष्ये देवराजयज्वा ॥)



Correction: