वाचस्पत्यम्
मेधाविन् || पु० मेधा + अस्त्यर्थे विनि । १ शुकखगे । २ मेधावति त्रि० मेदि० स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
मेधावी || [न्] पुं, (मेधास्त्यस्येति । मेधा + “अस- मायामेधास्रजो विनिः ।” ५ । २ । १२१ । इति विनिः)
शुकपक्षी । इति मेदिनी । ने, २०४ ॥ मदिरा । इति राजनिर्घण्टः ॥ पण्डितः । इति हेमचन्द्रः । ३ । ६ ॥ व्याडिः । इति त्रिकाण्डशेषः ॥ (कस्यचित् ब्राह्मणस्य पुत्त्रः । यथा, महाभारते, १२ । १७५ । ३ । “द्विजातेः कस्यचित् पार्थ ! स्वाध्यायनिरतस्य वै । बभूव पुत्त्रो मेधावी मेधावी नाम नामतः ॥”)
मेधायुक्ते, त्रि । इति मेदिनी । ने, २०४ ॥ (यथा, रामायणे । १ । ४ । ६ । “स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ । वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥”)
तद्वैदिकपर्य्यायः । विप्रः १ विग्रः २ गृत्शः ३ धीरः ४ वेनः ५ वेधाः ६ कण्वः ७ ऋभुः ८ नवेदाः ९ कविः १० मनीषी ११ मन्धाता १२ विधाता १३ विपः १४ मनश्चित् १५ विपश्चित् १६ विपन्यवः १७ आकेनिपः १८ उशिजः १९ कीस्तासः २० अद्धातयः २१ मतयः २२ मतुथाः २३ वाघतः २४ । इति चतुर्व्विंशतिर्म्मेधावि- नामानि । इति वेदनिघण्टौ । ३ । १५ ॥