संस्कृत-शब्दकोशः

मेधाविन् मेधिर

मेधि

वाचस्पत्यम्

मेधि is an alternate of मेथि. मेथि(धि) ||‍ पु० मेथ (घ)—इन् । धान्यमर्द्दनार्थं पशुबन्धान- काष्ठे (मेइकाठ) हेमच० ।


शब्दकल्पद्रुमः

मेधिः || पुं, (मेध्यते खले स्थाप्यते इति । मेध + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११३ । इति इन् ।)
खले पशुबन्धनार्थन्यस्तदारु । इत्यमरः । २ । ९ । १५ ॥ खले धान्यमर्द्दनस्थानमध्ये पशुबन्धन- निमित्तं निहितं यद्दारु स मेधिः । मेइ इति ख्याते । इति भरतः ॥ तत्पर्य्यायः । मेथिः ३ खलेवाली ३ । इति हेमचन्द्रः ॥ अस्य स्थापन- दिनं तत्र वारौ शुक्रबृहस्पती । नक्षत्राणि रेवती स्वाती हस्ता मूलं मृगशिरश्च । तत्र लग्नं स्थिरम् । इति ज्योतिस्तत्त्वम् ॥



Correction: