वाचस्पत्यम्
मेध्य || त्रि० मेध—ण्यत् । १ पवित्रे अमरः २ शुचौ च मेदि० मेधाय यज्ञाय हितः यत् । ३ छागे ४ खदिरे ५ यवे च पुं० मेदि० । ६ केतक्यां ७ शखपुष्प्यां ८ रक्तवचायाम् ९ रोच- नायां, १० शम्याम्, ११ भण्डूक्यां १२ ज्योतिष्मतीलता- याम् खी राजनि० ।
शब्दकल्पद्रुमः
मेध्यं || त्रि (मेध्यते इति । मेध् + “ऋहलोर्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् । यद्बा, मेधामर्ह- तीति । मेधा + दण्डादित्वात् यत् ।)
पवित्रम् । इत्यमरः । ३ । १ । ५५ ॥ (यथा, —
“ज्ञानेन मेध्यमखिलममेध्यं ज्ञानतो भवेत् ब्रह्मज्ञाने समुत्पन्ने मेध्यामेध्यं न विद्यते ॥” इति चिन्तामणिधृतवचनम् ॥)
“पवित्रः प्रयतः पूत इति ब्रह्मवर्गे प्राणिविषय- मात्र उक्तं इह त्वप्राणिद्रव्ये ।” इति भरतः ॥ “पूतं मेध्यं पवित्रं स्याद्बीध्रं प्रयतनिर्म्मलम् । निशोध्यं शोधितं मृष्टं निर्निक्तमनवस्करम् ॥” इति शब्दरत्नावली ॥ (नित्यमेध्यम् । यथा, मनुः । ५ । १२९ । “नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् । ब्रह्मचारिगतं भैक्ष्यं नित्यमेध्यमितिस्थितिः ॥”)
शुचिः । इति मेदिनी । ये, ४७ ॥ (यथा, अनर्घराघवे । २ । १४ । “तत्तादृक् तृणपूलकोपनयनक्लेशाच्चिर- द्वेषिभि- र्मेध्या वत्सतरी विहस्य बटुभिः सोल्लुण्ठमाल- भ्यते ॥” मेधाजनकः । यथा, —
“मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमघुकस्य चूर्णं । रसो गुडूच्यास्तु समूलपुष्पाः कल्कः प्रयोज्यः खलु शङ्खपुष्पाः ॥ आयुः प्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्द्धनानि । मेध्या विशेषेण च शङ्खपुष्पी ॥” इति चरके चिकित्सास्थाने प्रथमेऽध्याये ॥)
शब्दकल्पद्रुमः
मेध्यः || पुं, (मेधायै हितः । मेधा + “उगवादिभ्यो यत् ।” ५ । १ । २ । इति यत् ।)
खदिरः । यवः । छागः । इति राजनिर्घण्टः ॥