संस्कृत-शब्दकोशः

मेध्य मेनका

मेध्या

शब्दकल्पद्रुमः

मेध्या || स्त्री (मेधायै हिता । मेधा + यत् । टाप् ।)
रक्तवचा । रोचना । इति मेदिनी । ये, ४७ ॥ केतकी । ज्योतिष्मती । शङ्खपुष्पी । ब्राह्मी । श्वेतवचा । शमी । मण्डूकी । इति राज- निर्घण्टः ॥ (नदीविशेषः । यथा, महाभारते । ३ । २२१ । २३ । “चर्म्मण्वती मही चैव मेध्या मेधातिथिस्तथा ॥”)



Correction: